________________
१५०
कातन्त्रव्याकरणम्
२. शब्दों द्विविध: - नित्यः कार्यश्च ।
(दु०टी०)|
३. मन्दमतिबोधनाय पूर्वनिपात: (दु०टी० ) ।
[रूपसिद्धि]
---
अत्रापि प्रवाहनित्यतास्तीति
१. कुम्भकारः । कुम्भ + अम् + कार + सि । कुम्भं करोति । ‘कुम्भम्' के उपपद में रहने पर ‘डु कृञ् करणे' (७७) धातु से "कर्मण्यण्" (४।३।१) सूत्र द्वारा 'अण्' प्रत्यय, “सप्तम्युक्तमुपपदम् ' (४।२।२) से 'कुम्भम्' की उपपद संज्ञा, प्रकृत सूत्र से उसका प्राक् प्रयोग, " अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु” (३।६।५) से ॠ को वृद्धि - आर्, “कर्तृकर्मणोः कृति नित्यम्' (२।४।४१) से कर्म में षष्ठी विभक्ति, षष्ठीतत्पुरुष समास, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
+
२. ग्रामस्थः । ग्राम + ङि स्था + क + सि । 'ग्रामे' इस सप्तम्यन्त पद के उपपद में रहने पर ‘ष्ठा गतिनिवृत्तौ ' (१।२६७) धातु से "नाम्नि स्थश्च" (४/३/५) सूत्र द्वारा 'क' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ॥९४२॥
९४३. तस्य तेन समास: [४।२।४ ]
[सूत्रार्थ]
उपपदसंज्ञक नाम = स्याद्यन्त पद तथा कृत्प्रत्ययान्त धातु के साथ समास होता है ।।९४३ ।
[दु० वृ० ]
तस्य नामोपपदस्य तेन कृदन्तेन धातुना सह समासो भवति । गोदः, जलजम्, क्रोधजम् । यथा हि प्रादयः क्रियाद्योतका उपसर्गा इति धातोः प्रागेव सिद्धास्तथा ऊर्यादयोऽपि क्रियायोगे कृभ्वस्तिभ्य एव प्राक् सिद्धाः । प्रकृत्य, ऊरीकृत्य, ऊररीकृत्य। तथा शुक्लीकृत्य, पटपटाकृत्य । नाम्नां युक्तार्थत्वात् समासोऽपि सिद्ध एव । यथाभिधानमेते त्रयोऽपि योगाः वक्ष्यमाणाभ्यां सह प्रपञ्चार्था एव । धातोरित्ययमपि वासरूपे कृत्सम्बन्धादिति ॥ ९४३ ॥ [दु० टी०]
तस्य । नाम्नामित्यादि । कुम्भस्य कारः कुम्भकार इति षष्ठीसमासोऽपि भविष्यतीति भावः । तुल्यमेव फलम्, तर्हि वाक्यमपि स्यात् । यथा 'राज्ञः पुरुषः' इति ? सत्यम् । वर्णस्थित्या यत्र विग्रहवाक्यं नास्ति स नित्यसमासः । एवं षष्ठीसमासेऽपि नास्ति वाक्यमित्याह-यथाभिधानमिति । षष्ठीसमासस्तु स्याद्युत्पत्तिप्रतीक्षया बहिरङ्गः प्रक्रियागौरवं जनयतीति वचनमिदमुच्यते । कथं कारको गतः “वुणतुमौ क्रियायां क्रियार्थायाम्" (४/४/६९) इति वुण्, ततो गतः इत्युपपदम्, किन्तु क्रियावाचक इत्युदाह्रियते, तदसत् । द्रव्यवाचकत्वाद् गतशब्दस्य तर्हि वुण् गुणीभूतगतक्रियावशाद् यद्येवमुपोच्चारि पदम् उपपदम् इत्यन्वर्थतया