________________
कातन्त्रव्याकरणम्
[विशेष वचन] १. स्यादयो हि साधनेऽभिधीयन्ते इति लिङ्गबहिर्भूतक्रियामधिकृत्य तव्यादयोऽपि
लिङ्गात् स्युरिति भावः (दु० टी०) । २. भावशब्दः क्रियावचन: (दु० टी०) । ३. प्रकरणवशाद् धातोरेव तव्यादयः (दु० टी०) । ४. प्रतिपत्तिगौरवनिरासार्थ एव धात्वधिकारः (दु० टी०) । ५. पदान्तरोपात्तक्रियामधिकृत्य साधनाभिधायिनो लिङ्गात् तव्यादयः स्युः
(वि० प०)। ६. धातोरिति पञ्चम्यन्तानुकरणम् (क० च०) । ७. स्वस्मिन फलशन्यत्वे सति उत्तरफलाभिसम्बन्धोऽधिकारः (क० च०) । ८. इतिशब्दो द्विविधः - लिङ्गार्थाविर्भावक: पदार्थाविर्भावकश्च (क० प०) । ९. साधने तव्यादयो विधीयन्ते, साधनं च क्रियामन्तरेण न सम्भवति (क० च०)। १०. भावकर्मणोरित्यत्र भावशब्द: क्रियावचनः, “तत्वौ भावे'' इत्यत्र तु
प्रवृत्तिनिमित्तवचन: (क० च०) । ११. स्वरवद्ग्रहणं सुखार्थम् (क० च०) । [रूपसिद्धि]
१. कर्तव्यम् । कृ + तव्य + सि । 'डु कृञ् करणे' (७/७) धातु से धात्वधिकार में “तव्यानीयौ” (४।२।९) सूत्र द्वारा 'तव्य' प्रत्यय तथा विभक्तिकार्य।
२. करणीयम् । कृ + अनीय + सि । 'डु कृञ् करणे' (७।७) धातु से धात्वधिकार में ‘अनीय' प्रत्यय तथा विभक्तिकार्य ।।९४०।
९४१. सप्तम्युक्तमुपपदम् [४।२।२] [सूत्रार्थ धात्वधिकार में पठित सप्तम्यन्त पद की उपपद संज्ञा होती है ॥९४१। [दु० वृ०]
धात्वधिकारेऽत्र सूत्रे सप्तम्या निर्दिष्टमुपपदसंज्ञं भवति । “कर्मण्यण , नाम्नि स्थश्च'' (४।३।१, ५) इत्येवमादयः । उक्तमिति किम् ? सप्तम्यन्तमात्रे मा भूत् - स्तम्बेरमः, कुरुचरः ।।९४१।
[दु० टी०]
सप्त० । इह धात्वधिकारे क्वचिदधिकरणसप्तम्य:- "कर्तरि कृतः, भावे, करणाधिकरणयोश्च' (४।६।४६; ५।३, ९५) इति । क्वचिद् भावसप्तम्यः - "कर्मण्यण, करणेऽतीते यजः, शीङोऽधिकरणे च'' (४।३।१, ८१, १८) । अत्र या अधिकरणसप्तम्यस्तासामन्यत्र प्रयोगात् कार्य प्रति निमित्तत्वमसन्दिग्धम्। यास्तु