SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृतात्ययाध्याये द्वितीयो धातुपादः १४५ तव्यादीनामवसरो भिन्नविषयत्वादिति, किन्तु तदेव प्रत्युदाहरणं दातुमुचितम् , यद् भावशब्दस्य क्रियावचने सम्भवति । अथ तदेव किमित्याह - कुम्भतव्यमिति। ननु भावशब्दस्य क्रियावाचित्वे धातोरेव भवितुमर्हति, कुतोऽयं निश्चय: किन्तु कुम्भशब्दात् कुम्भकर्तृके भावे क्रियायामभिधेयायां सम्भवति को विवाद:। स्थितौ तु धात्वधिकाराद् भावकर्मणोरित्यनेन धातोः पर एव भवन्तीति। इदानीं नाम्नोऽपि स्युरिति। अथ कुम्भतव्यमिति कथमुक्तम्। अत्रापि तृतीयैवास्ति बाधिकेति। यथा कुम्भं करोतीति। अत्र द्वितीया बाधिका? सत्यम्, तस्माद् वासरूप-इत्यादिवक्ष्यमाणेन ग्रन्थेनास्य पक्षस्य सिद्धान्तः, अधुना तदनाश्रित्यान्यविचार: कृतः। अथ तदनाश्रित्य विचारो यद्यग्रतः कर्तव्यस्तदा कुम्भतेत्यत्र तप्रत्यय एवास्ति बाधक इति कुतो भावकर्मणोरित्यादिपङ्क्तेरुद्भावनासम्भवः। तदयुक्तमिति। कुम्भेन भूयते इत्येव युक्तमिति यदुक्तं तदयुक्तमित्यर्थः। किन्तु कुम्भतव्यम्, कुम्भतेति कुम्भं करोतीति च सर्वं युक्तमित्यर्थः। एतेन कुम्भतव्यमिति च प्रत्युदाहरणान्तरं बोध्यम्। अन्यथेति । धात्वधिकारं विनेत्यर्थः । यथासम्भवं प्रवृत्तिनिमित्तवचन: क्रियावचनश्च भावशब्द इत्यर्थः । अथ कुम्भं करोतीत्यत्र द्वितीया बाधिकेति, तथात्रापि "तत्वौ भावे'' इत्येवास्ति बाधक इत्याह - तस्मादिति । अथेत्यादि । हेमस्तत्र "ओदौद्भ्यां कृद् यः स्वरवत्' (४।१।३१) इत्यत्र स्वरवद्ग्रहणं सुखार्थमित्यर्थः । ननु चाशुद्धमेतद् इह कृद्ग्रहणादन्यत्र सामान्यमवगम्यते इत्युक्तम् , तेन "प्रत्ययलुकां चानाम् " (४।१।४) इत्यत्रापि सामान्यमवगम्यते इदानीं कृद्ग्रहणस्येदमेव फलम् भविष्यति तस्माद् दुष्टमेव हेमोक्तम् । अत्र कश्चित् तत्र सुखार्थमिति तस्य तेन समास: इत्यत्र सुखार्थं धातोरिति सूत्रमिति व्याख्याय हेमोक्तं शुद्धमित्याद्रियते । तथा च तत्रोक्तम् - धातोरित्ययमपि वासरूपे कृत्सम्बन्धादिति ।।९४०। [समीक्षा प्रत्यय ४ प्रकार के होते हैं – १. स्यादि, २. त्यादि, ३. कृत् तथा ४. तद्धित। इनमें से स्यादि (सुप) तथा तद्धित प्रत्यय तो लिङ्ग = प्रातिपदिक से होते हैं, जबकि त्यादि (तिङ्) एवं कृत् प्रत्ययों का विधान धातु से किया गया है । एतदर्थ दोनों ही शाब्दिक आचार्यों ने धातु का अधिकार किया है । पाणिनि का सूत्र है - "धातो:' (अ० ३।१।९१) । पाणिनीय व्याकरण में इस धातु के अधिकार में दोनों प्रकार के प्रत्ययों का विधान किया गया है, परन्तु कातन्त्रव्याकरण में त्यादि प्रत्ययों का विधान शर्ववर्मा ने तथा कृत्प्रत्ययों का विधान वररुचि ने किया है । अत: यह अधिकार दो बार नहीं किया गया है । कृत्प्रत्ययों के लिए वररुचि ने धात्वधिकार किया है, परन्त शर्ववर्मा ने त्यादि प्रत्ययों का निर्देश काल के अधिकार में रखा है - "काले' (३।१।१०)। अत: सामान्यतया उभयत्र समानता ही है ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy