________________
१४४
कातन्त्रव्याकरणम्
शब्दरूपम्, न तु पदं विभक्तेरभावात्। तच्च प्रकृतिविभक्तयोः समदाये भवति। नन स्वस्मिन् फलशून्यत्वे सत्युत्तरत्र फलाभिसम्बन्धो ह्यधिकारः। ततोऽधिक्रियमाणत्वात् प्रथमैव युज्यते। यथा कृदित्याह – धातोरित्यादि। एतेन पञ्चम्यन्तशब्दरूपमेवानुकृतं न पञ्चम्यन्तो निर्देश:। अयमर्थः - इतिशब्दो द्विविधः - लिङ्गार्थाविर्भावक: पदार्थाविर्भावकश्च। तत्र लिङ्गार्थाविर्भावको यथा गवित्ययमाह। पदार्थाविर्भावको यथा गौरित्याह। 'दशरथ इत्युदाहृतः' इत्यत्र तु पदार्थाविर्भावक इति। धातोरिति पञ्चम्यन्तानुकरणशब्दरूपान्न प्रथमा, गम्यमानेनेतिशब्देन तदर्थस्याभिधानात् , यथा - ‘काले' इति।
नन् किमर्थं पञ्चम्यन्तानुकरणं प्रथमैवास्ताम् अधिकारत्वात्। नैवम् , तव्यानीयावित्यादावर्थस्याघटनात्। अथार्थवशाद् विभक्तिविपरिणामो भविष्यतीति चेद, गौरवापत्ति: स्यात्। काले इत्यत्राप्येतदुक्तम्। अत एव पद्भ्याम् उक्तम् – काल इत्यादिवदिति। अथ सप्तम्यूक्तमित्यादौ विभक्तिविपरिणामस्तु अवश्यं कर्तव्यः, अर्थवशात् । तत् कथं गौरवापत्तिः, अत: प्रथमैवास्ताम् अधिकारत्वात्? सत्यम्, "सप्तम्युक्तमुपपदम्' (४।२।२) इत्येकसूत्र एव विभक्तिविपरिणाम: कर्तव्यः। प्रथमायां तु प्रतिसूत्र इति महदेव गौरवम्। नन्वनकरणं धातोरित्यस्यैतत्स्वरूपं शब्दरूपमर्थः। ततस्तव्यानीयावित्यत्र कथमन्वयः? नैवम्, अर्थानुकरणमिदं ततः पञ्चम्यन्तस्य धातोर्योऽयमर्थः सोऽनुकरणस्यापीति अविशेष इति वृत्तिः। ननु कथमेतद् गत्यर्थाकर्मकेत्यादौ विशेषविधानेऽपि अस्याधिकारस्य सम्बन्धात्? न च वाच्यम् , किन्तत्रानेनाधिकारेण 'शयितः' इत्यादौ इटोऽनुपपत्तेः । तत्र हि धातुसंज्ञामाश्रित्य यदसार्वधातुकं तस्मिन्नेवेड् भवतीत्युक्तम् । अत एव 'जुगुप्सते, तितिक्षते, मीमांसते' इत्यादौ न भवति । नैवम् , गत्यर्थाकर्मकेत्यादि न विधिसूत्रम् , किन्तर्हि अर्थनियामकम्, विधिसूत्रं तु "निष्ठा'' (४।३।९३) इति, तत्र धात्वधिकारोऽस्त्येवेति।
__ पञ्जिका - ननु तव्यादय इति। साधने कर्मणीत्यर्थः। एतदुक्तं भवति - साधने एते विधीयन्ते, साधनं च क्रियामन्तरेण न सम्भवतीति साध्यसाधनसम्बन्धे (क्रियाकारकसम्बन्धे) सति धातोरुपस्थितत्वात् तस्मादेव भवन्तीति पूर्वपक्षः।
ननु भावेऽप्येते विधीयन्ते, तत् कथं न तत्र पूर्वपक्षः कृतः ? सत्यम् , साधन इत्युपलक्षणं भावेऽपि बोद्धव्यम् , तत्र भावेऽयं पक्षः । भावशब्दा: क्रियाभिधायिनो धातोरेव भविष्यन्तीति युक्तमिदमिति उपहासपरोऽयं ग्रन्थः । अयमभिप्रायः-साधनस्य साध्यापेक्षत्वात् साध्यसाधनसम्बन्धे तव्यादयो भविष्यन्तीति, साध्यसाधनसम्बन्धस्तु न केवलमेकपदे, किन्तर्हि पदद्वयेऽपि । यथा कुम्भं करोतीति । अथ एकपदोपात्त एव साध्यसाधनसम्बन्धे भविष्यन्ति पदद्वयोपात्ते न भविष्यन्तीति न निश्चयः, किन्तु धात्वधिकारं विना सामान्येन स्यात् । कम्भतेति । एतदर्थं क्रियमाणं कम्भं करोतीत्यपि विषयीकरोतीत्याह - किञ्चेति । तत्र चेति । एतेनायमर्थः-भावकर्मणोरित्यत्र भावशब्द: क्रियावचन:। "तत्वौ भावे' (२।६।१३) इत्यत्र तु प्रवृत्तिनिमित्तवचनः कथं तदुभयोर्भावविषये