________________
चतुर्थे कृतात्ययाध्याये द्वितीयो धातुपादः १४३ अथेत्यादि । 'धातोस्तोऽन्तः पानुबन्धे'' (४।१।३०) इत्यतो यथासम्बन्धं युज्यते अर्थवशादिति भावः । एवं सत्यस्मिन् धात्वधिकारे यो धुडादिस्तस्मिन्नेव ऊडादेश: स्यान्न तु आख्यातिक इत्यर्थः । तथापि धात्वधिकारो न प्रयोजयति प्रकरणवशाद् धातोरेव तव्यादयः, यतस्तव्यादिविधौ धातुप्रकृतय एव विधीयन्ते । एवं मनसिकृत्य धातोरित्ययमपि वासरूपे कृतसम्बन्धादिति वक्ष्यति "सप्तम्युक्तमुपपदम्" (४।२।२) इत्यधिकारो भविष्यति ? सत्यम् , प्रतिपत्तिगौरवनिरासार्थ एव धात्वधिकार इति ।।९४०।
[वि० प०]
धातोः । पञ्चम्यन्तमनुकृतमिति । एतच्च ‘काले' इति सप्तम्यन्तमन्कृतमित्यादिवद् व्याख्येयम् । अविशेष इति । सामान्ये तव्यानीयावित्यादौ । विशेषे तु "यमिमदिगदान्त्वनुपसर्गे" (४।२।१३) इत्यादौ धातुप्रकृतिनिर्देशेऽव्यभिचाराचास्य प्रयोजनमस्तीति भावः। धातोरित्यादि। ननु तव्यादयः प्रत्ययाः साधने विधीयन्ते, न च क्रियामन्तरेण साधनं सम्भवतीति। साधनार्ह क्रियाभिधायिन एव भविष्यति, किं धात्वधिकारेणेति? युक्तमिदम्, योकपदोपात्तसाध्यसाधनसम्बन्धे निश्चय: स्यात्। न चान्तरेण धात्वधिकारमसौ भवतीति। कुम्भं करोतीत्यादौ पदान्तरोपात्तक्रियामधिकृत्य साधनाभिधायिनो लिङ्गात् तव्यादयः स्युः, यदा साधनविहिताः स्यादय इति । यद्येवम्, एते स्यादयो लिङ्गाद् विशेषविहिता बाधका भवन्तीति कथं तव्यादीनामवसर:? तदयुक्तम् । भावे स्यादीनामविषयत्वात् तव्यादय एव भवितुमर्हन्तीति । तर्हि कुम्भं करोतीति न प्रत्युदाहर्तव्यम् । इह कर्मणि विशेषविहिता द्वितीयैवास्ति बाधिका । किं च कुम्भस्य भावः कुम्भतेत्यपि न प्रत्युदाहरणं युज्यते । "भावकर्मणोः कृत्यक्तखलः " (४।६।४७) इत्यनेन विहितास्तव्यादयस्तत्र भावशब्द: क्रियावचन इति । अत: कुम्भेन भूयते इत्यर्थे कुम्भतव्यमिति प्रत्युदाहरणमुचितम्, तदयुक्तम् । धात्वधिकारेऽस्मिन् सति भावशब्दस्तत्र क्रियावचन इति शक्यते वक्तुम्। अन्यथा यथासम्भवमेव गम्यते । तस्माद वासरूपन्यायेन "तत्वौ भावे" (२।६।१३) इत्यस्य लिङ्गविधित्वेनापवादस्य विषयत्वेऽपि पक्षे तव्यादिरुत्सर्गविधि: स्यात् । तथा कुम्भं करोतीति द्वितीयाविषये "कर्मण्यण" (४।३।१) अपीति धात्वधिकारस्य प्रयोजनान्तरमाह - युष्मदीत्यादि । यदुपपदत्वं स्याद् युष्मदस्तदा "तत् प्राङ् नाम चेत्" (४।२।३) इति वचनात् 'त्वं पचसि' इत्येव स्यात् , ‘पचसि त्वम्' इति न स्यात् । सिद्धान्ते पुनरर्थवशाद् विभक्तिविपरिणामेन वक्ष्यति धात्वधिकारेऽत्रेति । तेनाख्याते न प्रसङ्ग इति । किं च धात्वधिकारमन्तरेण "वासरूपोऽस्त्रियाम्" (४।२।८) इत्यपि वचनमसीमकत्वादाख्यातभपि गच्छेद् इत्याह - उत्सर्ग: सिजिति । अथेति । "धातोस्तोऽन्तः पानुबन्धे" (४।५।३०) इत्यतो धात्वधिकारेणैते दोषा इति । यद्येवमस्मिन् धात्वधिकारे यो धुडादिर्विहितस्तस्मिन्नेव "च्छ्वोः शूटौ पञ्चमे च" (४।१।५६) इति स्यात् , न त्वाख्यातविहित इति । अत: कार्यों धात्वधिकारः इति ।।९४०।
[क० च०] धातोः। धातोरिति पञ्चम्यन्तानुकरणं गम्यमानेतिशब्देनाभिधीयमाने प्रथमार्थे