________________
अथ चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
९४०. धातोः [४।२।१] [सूत्रार्थ यहाँ से पञ्चम्यन्त धातु शब्द का अधिकार रहेगा ।।९४०। [दु० वृ०]
धातोरिति पञ्चम्यन्तमनुकृतम् । अविशेषे धातोरित्ययमधिकारो वेदितव्यः । कर्तव्यम्, करणीयम् । धातोरिति किम् ? कुम्भता । कुम्भं करोतीति भावकर्मणोर्न तव्यादयः । "युष्मदि मध्यमः'' (३।१।६) इति सप्तम्युक्तं नोपपदम् । उत्सर्ग: सिच् सन्विषये न स्यात् । अथ "धातोस्तोऽन्तः पानुबन्थे' (४।१।३०) इत्यतो धातोरित्यनुवर्तते। तर्हि 'दूधूषति' इत्यूड् न सिध्यति ।।९४०।
[दु० टी०]
धातोः । पञ्चम्यन्तमनुक्रियते इति । पञ्चमी चात्र परदिग्योगलक्षणैव सम्भवति, न तु कारकलक्षणा । "प्रत्ययः परः'' (३।२।१) इति वचनादनिर्दिष्टत्वात् "क्तोऽधिकरणे च" (४।६।५६३) इत्यवधिरस्य परिशेषोऽवशिष्यते, "युवुझामनाकान्ताः' (४।६।५४) इत्यादिषु प्रयोजनाभावात् । अविशेष इति । यत्र विशिष्टा धातवः सन्ति तत्र न प्रयोजयति । यथा “यमिमदिगदां त्वनुपसर्गे" (४।२।१३) इति । धातोरित्यादि । ननु साधने हि तव्यादयोऽभिधीयन्ते, साधनं च क्रियाया भवति, कथं लिङ्गात् तव्यादयः? सत्यम् , स्यादयो हि साधनेऽभिधीयन्ते इति लिङ्गबहिर्भूतां क्रियामधिकृत्य तव्यादयोऽपि लिङ्गात् स्युरिति भावः । ननु लिङ्गाद् विशिष्टाद् विधीयमानाः स्यादयो भविष्यन्ति, नेतदस्ति । अविशेषेणोत्पद्यमानाः स्यादयः कथं बाधका: ? तव्यादयस्तु भावे विधीयमाना बाधका: स्युरिति । तर्हि कुम्भं करोतीति न प्रत्युदाहर्तव्यम्। तथा कुम्भतेत्यपि भावकर्मणोरित्यत्र भावशब्दः क्रियावचनः "तत्वौ भावे' (२।६।१३) इत्यत्र सामान्यवचनात् कुम्भेन भूयते इत्यर्थे कुम्भतव्यमिति प्रत्युदाहर्तव्यम्, नैवम् । धात्वधिकारेऽस्मिस्तत्र भावशब्द: क्रियावचन:, अन्यथा यथासम्भवं युज्यते, तस्माद् "वाऽसरूपोऽस्त्रियाम्' (४।२।८) इति प्रत्युदाहरणं घटते ।
युष्मदीति । उपपदसञ्ज्ञायास्त्वर्थवशाद् विभक्तिविपरिणाम इति वक्ष्यति । धात्वधिकारेऽत्रेति सत्यर्थाद् विषयो धात्वधिकारमन्तरेण न स्याद् अतस्त्वं देवदत्त: पचसीति न प्राप्नोति । देवदत्तस्त्वं पचसीति सर्वदा स्यात् “तत् प्राङ् नाम चेत्' (४।२।३) इति वचनाद् "वाऽसरूपोऽस्त्रियाम्' (४।२।८) इत्यनेन च सनोऽपवादविषये सिच् न स्यादित्यर्थः।