________________
चतुर्थे वृतात्ययाध्याये द्वितीयो धातुपादः १४७ भावसप्तम्यस्तत्र सन्देहः - किमेताः कार्यविधानस्योपलक्षणं कर्मणि सति अण् भवति?
आहोस्विदुपपदसंज्ञाया लिङ्गमात्रमिति? एकस्मिनिर्देशे उभयथा व्यापारस्यासम्भवात्। उपपदसंज्ञायाः साक्षाद् उपादानानिमित्तसप्तम्यो ज्ञेयाः। आवर्तन्ते वा, अविशेषविधानाद् यत्र कर्मणि सत्यणप्रत्ययस्तदोपपदसंज्ञा भविष्यतीति धातोरित्यर्थवशात् सप्तम्यन्तत्वेन विषय: कथ्यते, प्रत्ययानां बाहुल्यात्।
___ धातोरिति पञ्चमो निर्दिष्टा । कर्मण्यण् इत्यादिभियोगैरेकवाक्यताऽस्य सूत्रस्येति दर्शितम् । तदा कर्मण्यण् इत्यस्य सप्तमीनिर्देशादुपपदसंज्ञा, कर्मणि सत्यण् भवति उभयं सिध्यति अधिकारादप्येतत्सम्भव इति । उपपदसज्ञाधिक्रियते इति । कार्यकालं संज्ञापरिभाषेयं यथोद्देशं संज्ञा परिभाषेति व्याख्यातम् । उक्तमित्यादि । सप्तम्युपपदम् इत्युच्यमाने यदेव सप्तम्यन्तं श्रूयते प्रत्ययलोपलक्षणेन वा, तदेव स्यादिति । उक्तग्रहणे सति सप्तमीग्रहणेन सप्तम्यन्तमुपस्थाप्य प्रत्यासत्तेः शास्त्रदृष्टं न लोकप्रयोगनिपातीति । तत्र च शब्दान्तरस्य प्रवृत्त्यभावादों गृह्यते, यथा "कर्मण्यण्" (४।३।१) इति कुम्भादिशब्दाः । इह तु 'कर्णेजपः, स्तम्बेरमः' इति "स्तम्बकर्णयो रमिजपोः" (४।३।१६) इत्यस्य सप्तम्यन्तस्य स्तम्बकर्णशब्दौ सप्तम्यन्तावमू इति सप्तम्यन्तग्रहणेन गृह्यते ।
उपोच्चारि पदम् उपपदम् इति उपोच्चारि इत्युपकारीति गृह्यते क्रियायाश्चोपकारि द्वयमपि सम्भवति वाक्यार्थः पदार्थश्चेति । तत्र वाक्यार्थनिरासार्थं पदेन व्यवच्छिद्यते पदावधौ यदुपकारि क्रियाया एव धात्वनुवृत्त्या धात्वर्थं परिगृह्यते क्रियायाः साध्यसाधनं प्रति नियमाद् योग्यसम्बन्धमेवोपपदसंज्ञं भवतीति । तेन ‘पश्य कुम्भम् , करोति घटम्' इत्युपपदसञ्ज्ञा न भवति न्यायप्राप्तान्वर्थता प्रदर्श्यते । कार्यकालपक्षेऽपि सम्बन्ध एव कर्मणीति । तथा तत्रैवोदाहरिष्यामः । उपपदप्रदेशा: "दीर्घस्योपपदस्य" (४।१।२०) इत्येवमादय: ।।९४१।
[वि० प०] !
सप्त० । अथ सप्तम्युपपदम् इत्यास्ताम् । अर्थात् सप्तम्यन्तमुपपदम् भविष्यतीति किमुक्तग्रहणेन ? तदयुक्तम् , एवं सति प्रयोगे साक्षात् प्रत्ययलोपलक्षणेन च सप्तम्यन्तं तदेवोपपदं स्यात् । यथा:-:'स्तम्बरम:, कुरुचरः' इति । उक्तग्रहणप्रयत्नेन तु यदेव सूत्रे सप्तम्या उक्तं निर्दिष्टं तदेवोपपदं न प्रयोगनिपातीत्याह-उक्तमित्यादि । मात्रग्रहणप्रयत्नेन : कुम्भं करोति कुम्भकारः, कच्छेन पिबतीति कच्छपः इत्यादौ प्रयोगे द्वितीयाद्यन्तस्य न स्यादिति सूच्यते । "स्तम्बकर्णयो रमिजपोः" (४।३।१६) "चरेष्टः' (४।३।१९) इति अच् - टौ प्रत्ययौ ।।९४१।