________________
१३८
कातन्त्रव्याकरणम् सूत्र से ‘अद्' धातु को 'जग्धि' आदेश, “धुटां तृतीयश्चतुर्थेषु' (३।८।८) से धकार को दकार तथा विभक्तिकार्य।
२. जग्द्धवान्। अद् + क्तवन्तु + सि। ‘अद्' धातु से क्तवन्तु प्रत्यय, जग्धि आदेश, धकार को दकार तथा विभक्तिकार्य।
३. जग्द्धिः । अद् + क्ति + सि। ‘अद्' धातु से 'क्ति' प्रत्यय, 'जग्धि' आदेश, धू को द् तथा विभक्तिकार्य। “धुटश्च धुटि'' (३।६।५१) से पूर्ववर्ती धकार का लोप हो जाने पर 'जग्धि:' रूप।
४. जग्ध्वा । अद् + क्त्वा + सि। 'अद्' धातु से ‘क्त्वा' प्रत्यय, जग्धि-आदेश, "घढधभेभ्यस्तथो?ऽध:'' (३।८।३) से तकार को धकार, “धुटां तृतीयश्चतुर्थेषु' (३।८।८) से पूर्ववर्ती धकार को दकार तथा विभक्तिकार्य।
५. प्रजग्ध्य गतः। प्र + अद् + क्त्वा - यप् + सि। 'प्र' उपसर्गपूर्वक 'अद्' धातु से ‘क्त्वा' प्रत्यय, समास में क्त्वा को ‘यप्' आदेश तथा विभक्तिकार्य।।९३७।
९३८. घजलोर्घस्ल [४।१।८३] [सूत्रार्थ
'घ' तथा 'अल्' प्रत्यय के परे रहते ‘अद्' धातु को 'घस्ल' आदेश होता है।।९३८।
[दु० वृ०]
अदेञि अलि च प्रत्यये घस्लर्भवति। लकार उच्चारणार्थः। घास:। "उपसर्गेऽदेरल्" (४।५।४२) विघसः। प्रात्तीति-प्रघसः, अचि वक्तव्यम्।।९३८
[दु० टी०]
घब०। प्रात्तीत्यादि वक्तव्यं व्याख्येयम् । घसि: प्रकृत्यन्तरमस्तीति अदेरचि प्रयोगो नास्त्यनभिधानात्। तदसत्, न हि प्रकृत्यन्तरमस्तीति “वा परोक्षायाम्' (३।४१८०,९०) इति प्रदर्शनात्। 'घस्मरः' इति "सदिघसां मरक्' (४।४।४०) इति वचनान्मरविषय इत्युक्तमेव। अचि तर्हि नाद्रियते इत्येवायमिह प्रयोग:। यस्त्वाह-घसे: प्रकृत्यन्तरस्यासर्वविषयतेति सूचनार्थं "वा परोक्षायाम्' (३।४।८०,९०) इति वचनम्। तन्मते नायं प्रयोगो ष्यतीति भावः।।९३८।
[वि० प०]
घज०। वक्तव्यमिति व्याख्येयम्। "स्रदिघसां मरक" (४।४।४०) इति वचनाद् घसि: प्रकृत्यन्तरमस्ति। तेनेदं सिद्धम् इत्यर्थः। अदेस्त्वच्यत्ययो नाभिधीयते। नन्वसौ घसि: मरविषय एवेत्युक्तम्, तत् कथमचि तस्य प्रसङ्गः इति? तथा च "वा परोक्षायाम्' (३।४।८०,९०) इति वचनमुक्तम्, अन्यथा अदिनाऽनेन च घसिना रूपद्वयं सिद्धम्? सत्यम्, एवन्तर्हि नैष प्रयोगोऽभिधीयते इति। वक्तव्यं तु मतान्तरेण दर्शितम्।।९३८।