________________
चतुर्थे कृतात्ययाध्याये प्रथमः सिद्धिपादः
१३७ ९३७. यपि चादो जग्धिः [४।१।८२] [सूत्रार्थ
अगुण तकारादि प्रत्यय तथा यप् प्रत्यय के परे रहते ‘अद्' धातु के स्थान में 'जग्धि' आदेश होता है।।९३७।
[दु० वृ०]
तकारादावगुणे यपि च परेऽदो जग्धिर्भवति। जग्द्धः, जग्द्धवान्, जग्द्धिः , जग्द्धा , प्रजग्ध्य गतः। कथमन्त्रम्? “अदोऽनन्ने' (४।३।७१) इति ज्ञापकात्। अगुण इति किम्? अत्तव्यम्,
जगद्धौ सिद्धेऽन्तरङ्गत्वाद् यपि चेति यदुच्यते।
ज्ञापयत्यन्तरङ्गाणां यपा भवति बाधनम् ।।इति अन्ये। तेन प्रणम्य, आपृच्छ्य, प्रदीव्य। पञ्चमोपधप्रभृतीनां दीर्घादयो न भवन्ति।।९३७। [दु० टी०]
यपि०। इकार उच्चारणार्थः। जग्धावित्यादि। तकारादावगणे जग्ध्यादेशे सिद्धे सतीत्यर्थः। यबादेशो हि समासमाश्रित्य भवन् बहिरङ्ग इत्यर्थः। अन्तरङ्गाणामिति। उभयप्राप्तौ कर्मणि षष्ठीयम्, यति कर्तरि तृतीया। बाधनमिति भावे, अन्तरङ्गविधयो यपा बाध्यन्ते इति भावः। तदिह न वक्तव्यम्, भाविनि भविष्यति समासे यपो विधानात्। अथ वाक्यं समासावलम्बनं वृद्धरस्तीति तर्हि तत्र भाविग्रहणमनर्थकं स्यात् ।।९३७
[वि० प०] ___यपि०। अथ किमर्थमिदं यब्ग्रहणम् ? "समासे भाविन्यनञः क्त्वो यप्" (४।६।५५) इत्युभयपदाश्रितं समासमाश्रित्य भवतो बहिरङ्गत्वाद् यपः प्रागेव तकारावस्थायामन्तरङ्गे जग्ध्यादेशे सति प्रजग्ध्येति सिद्धमित्याह-जग्धावित्यादि। बहिरङ्गेणापि यपा अन्तरङ्गविधयो बाध्यन्ते इति भावः। अन्यथा जग्धिवत् पञ्चमोपधया धुटि चागुणे "च्छ्वोः शूटौ पञ्चमे च" (४।१।५६) इत्यादिकमपि अन्तरङ्गत्वात् तकारादौ धुटि स्यात्। ततः प्रणम्येत्यादिकं न सिध्यतीति भावः। अन्ये केचिद् इह तु न युक्तमेव, तत्र हि भाविग्रहणमुपदेशयबर्थमिति वक्ष्यति। ततो भाविनि समासे उपदेशावस्थायामेव क्त्वो यबिति कुतो दीर्घादिप्रसङ्गः।।९३७।
[समीक्षा
'जग्धः, जग्धवान्, प्रजग्ध्य' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अद्' धातु को 'जग्धि' आदेश किया गया है। पाणिनि का सूत्र है- “अदो जग्धिय॑प्तिकिति' (अ० २।४।३६)। अत: उभयत्र समानता है।
[रूपसिद्धि] १. जग्द्धः । अद् + क्त + सि। 'अद भक्षणे' (२।१) धातु से 'क्त' प्रत्यय, प्रकृत