________________
१३२
कातन्त्रव्याकरणम्
२. 'धाञः' इति सिद्धे तिनिर्देशः सुखार्थ: (दु० टी० )। [रूपसिद्धि]
१-४. हितः, हितवान्,हितिः, हित्वा। धा - क्त, क्तवन्तु, क्ति, क्त्वा - सि। 'डु धाञ् धारणपोषणयोः' (२।८५) धातु से क्रमशः ‘क्त-क्तवन्तु-क्ति-क्त्वा' प्रत्यय, अनुबन्धों का प्रयोगाभाव, प्रकृत सूत्र द्वारा 'धा' धातु को 'हि' आदेश तथा विभक्तिकार्य।।९३३।
९३४. चरफलोरुदस्य [४।१।७९] [सूत्रार्थ]
अगुण तकारादि प्रत्यय के परे रहते 'चर्-फल्' धातुओं की उपधा में विद्यमान अकार को उकारादेश होता है।।९३४।
[दु० वृ०] चरफलोरकारस्य तकारादावगुणे उद् भवति। चूर्त:, चूर्तिः। प्रफुल्त:, प्रफुल्तिः ।।९३४। [दु० टी०]
चर०। 'फल निष्पत्तौ, दल जि फला विशरणे' (१।१७६,१६५) इत्यस्यापि ग्रहणम् । नात्र 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि०४८) इत्याद्रियते। द्विवचनं च रूपसाम्यात्। चरणं चूर्तिः। "घोषवत्योश्च कृति" (४।६।८०) इतीटप्रतिषेध इति। तथा ‘फल निष्पत्तौ' (१।१७६) प्रफुल्तिः, प्रफुल्तः इति। आदनुबन्धत्वाद् विशरणार्थस्येडभावः।।९३४।
[वि० प०]
चर०। चरणं चूर्तिरित्युत्त्वे "नामिनो वोः" (३।८।१४) इत्यादिना दीर्घः। प्रफुल्तः इति। 'दल जि फला विशरणे' (१।१६५) इत्यादनुबन्धाच्चेटप्रतिषेधः। इह 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इति वचनस्यानादरात्। प्रफुल्तिरिति। 'फल निष्पत्तौ' (१।१७६)। स एव वा "घोषवत्योश्च कृति'' (४।६।८०) इटप्रतिषेधः।।९३४।
[क० च०]
चर०। चर०। 'चर गतौ, चरि रिवि धवि गत्यर्थाः' (चर असंशये ९।१५७;१।१८९) इति द्वयोर्ग्रहणमविशेषात् । चरधातो: त्ते. उदाहरणं नास्तीति इटि सति तकारादित्वाभावाच्चोरितमित्येव भवति। यत्तु चूर्ण इति पदं दृश्यते, तत् 'चुरी दाहे' (चूरी दाहे ३।१०१) इत्यस्य। ईदनुबन्धत्वात्रिष्ठायामिटप्रतिषेधः। 'प्रफुल्तः' इति 'दल बि फला विशरणे' (१।१६५) इत्यस्य, 'फल निष्पत्तौ' (१।१७६) इत्यस्य तु फलितमिति तकारपरस्यादेशस्य स्वरूपग्राहकत्वात्। कथं चूर्त्तिरित्यस्य दीर्घ इति न देश्यम्, अकुर्छरोरिति वर्जनमकारस्य स्वरूपग्राहकत्वानित्यत्वज्ञापनात्! तेनापि तदा वर्धन्ते तद्धीति।।९३४।