________________
चतुर्थे कृतात्ययाध्याये प्रथमः सिद्धिपादः
१३३
१३३ [समीक्षा]
'चूर्तिः, प्रफुल्तः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में ‘चर् - फल' धातुओं की उपधा में विद्यमान अकार को उकारादेश किया गया है। पाणिनि का सूत्र है- “ति च'' (अ० ७।४।८९)। अत: उभयत्र समानता है।
[रूपसिद्धि]
१-२. चूर्तः, चूर्तिः। चर् + क्त, क्ति + सि। ‘चर गतौ' (९।१५७) धातु से 'क्तक्ति' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से अकार को उकार “नामिनो वो:' (३।८।१४) से उकार को दीर्घ तथा विभक्तिकार्य।
३-४. प्रफुल्तः , प्रफुल्तिः । प्र + फला + क्त, क्ति + सि। 'प्र' उपसर्गपूर्वक ‘दल ञि फला विशरणे' (१।१६५) धातु से 'क्त-क्ति' प्रत्यय आदि कार्य पूर्ववत् ।।९३४।
९३५. दद् दोऽधः.[४।१।८०] [सूत्रार्थ]
अगुण तकारादि प्रत्यय के परे रहते दासंज्ञक धातुओं को 'दत्' आदेश होता है, धेट धातु को छोड़कर।।९३५।
[दु० वृ०]
दासंज्ञकस्य धेड्वर्जितस्य तकारादावगुणे दद् भवति। दत्तः, दत्तवान्, दत्तिः, दत्त्वा। दासंज्ञकस्येति किम्? अवदातः। अध इति किम् ? धेट-धीतः, धीतवान्। दान्ते तस्य नत्वम्, धान्ते धत्वं स्यात्, सन्निपातलक्षणस्य वर्णग्रहणे निमित्तत्वात् ।।९३५।
[दु० टी०]
द०। दधातेर्हिरस्तीत्याह- धेडित्यादि। तान्तोऽयमादेशः, आगमादित्याह-दान्त इत्यादि। अगुण इति किम्? दाता।।९३५।
[वि० प०]
दद् दो०। दधातेर्हिरादेशोऽस्तीति। अध इति धेटो वर्जनम् । 'दद् दः' इति निर्देशस्य त्रिधा समानत्वेऽपि तान्तत्वे युक्तिमाह-दान्त इत्यादि। न च वक्तव्यम् - तकारादावयमादेश इति सन्निपातलक्षणो विधिरनिमित्तं तदविघातस्य (का० परि०३९)। वर्णकार्यत्वात् तस्यैतदेवाह–सन्निपातेत्यादि। तस्माद् दाद् दस्य चेति निष्ठातकारस्य तकार:, "घढधभेभ्यस्तथो?ऽधः" (३।८।३) इति धत्वं स्यात्। न चैवमभिधानमस्तीति। तस्मात् तान्तोऽयमादेश इति स्थितम् ।।९३५।
[क० च०]
दद् दो०। अवदात इति यदा पाठस्तदा 'दाप् लवने' (२।२३) इत्यस्य रूपम्, अवच्छिन्नमित्यर्थः। यदा तु 'अवदानम्' इति पाठः, स 'दैप शोधने' (१।२६३) इत्यस्य दर्शितः। अथ ददिति आदेश: तान्त:, थान्त:, दान्तः, धान्तो वा। तत्र थान्ते "अघोषेष्वशिटां प्रथमः" (३।८।९) इति प्रथमे सति न दोषः इति। तत्राशङ्का