________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
१३१
[विशेष वचन ]
१. शातेर्व्रते नित्यं व्यवस्थितविभाषया (दु० वृ०)।
२. 'शो तनूकरणे' इत्यस्य व्रतविषय इति भावः । संशितो ब्राह्मणः इति व्रतीत्यर्थः (दु० टी० ) | ३. यदीह व्यवस्थितविभाषा नाद्रियते तदा सर्वत्रैवायं विकल्प: (वि० प० ) । [ रूपसिद्धि]
+ क्त +
१. अवच्छितः, अवच्छातः । अव + छो सि। ‘अव' उपसर्गपूर्वक ‘छो छेदने' ( ३।२०) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र द्वारा वैकल्पिक इकारादेश, तकारागम, चकारादेश तथा विभक्तिकार्य । पक्ष में 'अवच्छातः ' ।
२. अवच्छितिः, अवच्छाति: । अव + छो+क्ति + सि। 'अव' उपसर्गपूर्वक 'छो छेदने' (३।२०) धातु से 'क्ति' प्रत्यय तथा प्रकृत सूत्र से वैकल्पिक इकारादेश आदि कार्य पूर्ववत् ।
३. निशितः, निशातः । नि + शो + क्त सि। 'नि' उपसर्गपूर्वक 'शो तनूकरणे' (३|१९) धातु से 'क्त' प्रत्यय आदि कार्य पूर्ववत् ।
+
४. निशितिः, निशातिः । नि + शो + क्ति सि। 'नि' उपसर्गपूर्वक 'शो' धातु से 'क्ति' प्रत्यय आदि कार्य पूर्ववत् ॥९३२ ।
९३३. दधातेर्हिः [४ । १।७८ ]
[सूत्रार्थ]
अगुण तकारादि प्रत्यय के परे रहते 'धा' धातु को 'हि' आदेश होता है ।। ९३३ । [दु० वृ०]
दधातेस्तकारादावगुणे हिर्भवति । हितः, हितवान्, हितिः, हित्वा । दधातेरिति किम् ? धेट्-धीतः, धीतवान् । 'वा' न वर्तते, धात्वन्तरबलात् ॥९३३।
[दु० टी०]
दधा० । 'वा' न वर्तते इति । 'हि गतौ' (४।११), अनेकार्थत्वाद् धातूनां विभाषां साधयतीत्यर्थः। ‘इष्टतो ह्यधिकार ं प्रवृत्तिनिवृत्ती स्याताम्' इति सिद्धे ति निर्देशः सुखार्थः ॥ ९३३॥
[वि० प० ]
दधा०। धात्वन्तरबलादिति । अन्यथा 'हि गतौ' (४|११ ) इत्यनेनानेकार्थत्वाद् धातूनां समानार्थत्वेन विकल्पस्य सिद्धत्वात् किमनेनेति भावः ॥ ९३३ ॥
[समीक्षा]
'हितः, हितवान्, हित्वा' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'धा' धातु को 'हि' आदेश किया गया है। पाणिनि का सूत्र है - " दधातेर्हिः " (अ०७।४।४२) । अतः उभयत्र समानता है ।
[विशेष वचन ]
१. 'वा' न वर्तते, धात्वन्तरबलात् ( दु० वृ०)।