________________
कातन्त्रव्याकरणम्
५-८. दितवान्, अवसितवान्, मितवान्, स्थितवान्। दो-अवसो-मा-स्था + क्तवन्तु + सि। उक्त चार धातुओं से क्तवन्तु प्रत्यय, प्रकृत सूत्र से इकारादेश तथा विभक्तिकार्य।
९-१२. दितिः, अवसितिः, मितिः, स्थितिः। दो-अवसो-मा-स्था-क्ति सि। उक्त चार धातुओं से क्ति प्रत्यय, इकारादेश तथा विभक्तिकार्य।
१३-१५. दित्वा, मित्वा, स्थित्वा। दो-मा-स्था+क्त्वा+सि। 'दो-मा-स्था' धातुओं से क्त्वा प्रत्यय विभक्तिकार्य।।९३१।।
९३२. वा छाशोः [४।१।७७] [सूत्रार्थ
अग्ण तकारादि प्रत्यय के परे रहते 'छो-शो' धातओं के अन्तिम वर्ण को इकारादेश विकल्प से होता है।।९३२।
[दु० वृ०]
छाशोस्तकारादावगुणे इद् भवति वा। अवच्छितः, अवच्छितिः, अवच्छात:, अवच्छाति:। निशितः, निशितिः, निशात:, निशाति:। शातेव्रते नित्यं व्यवस्थितविभाषया। संशितो ब्राह्मणः। अन्यथा शिञा सिद्ध एव।।९३२।
[दु० टी०]
वा०। 'छो छेदने' (३।२०)। शातेरित्यादि। 'शो तनूकरणे' (३।१९) इत्यस्य व्रतविषय इति भावः। संशितो ब्राह्मणः इति व्रतीत्यर्थः। संशिते व्रतम्, व्रतादन्यत्र निपात:। अन्यथेत्यादि। यदि व्यवस्थितविभाषा नाद्रियते "शि निशाने' इति धात्वन्तरेणापि सिद्धमेवेत्यर्थः। परस्त्वाह-श्यतेविचनं ना क्तान्तेनैकप्रकृतिना क्तान्तमन्ञ् समस्यते। यथा कृताकृतं शातं च तदशितं चेति शाताशितम्, तदसत् । यथाभिधानं समास इत्युक्तमेव।।९३२।
[वि० प०]
वा०। अन्यथेति। यदीह व्यवस्थितविभाषा नाद्रियते तदा सर्वत्रैवायं विकल्प इति। इकारपक्षे 'शिञ् निशाने' इत्यनेनैव सिध्यति किं 'शो तनूकरणे' (३।१९) इत्यस्य विकल्पविधानेनेति भावः।।९३२।
[समीक्षा]
निशितम्, निशातम्, अवच्छितम्, अवच्छितवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'शो-छो' धातुओं के अन्तिम वर्ण को विकल्प से इकारादेश किया गया है। पाणिनि का सूत्र है- “शाछोरन्यतरस्याम्' (अ०७।४।४९)। अत: उभयत्र समानता ही है।