________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
१२९
स्यादिति भावः । अथ 'दो- सो' इति निर्दिश्यताम्, तथापि पाठगौरवं स्यादिति तिपा निर्देश: ।। ९३१ ।
[क० च०]
द्यति०। तिपा निर्देश इति । अत्र धेट् इति पाठोऽशुद्ध एव । 'दा' इत्युक्ते "स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि० २८) इति दासंज्ञकस्य ग्रहणेऽपि धेट एव ग्रहणं भविष्यति नान्यस्य, विशेषविधिभिराघ्रातत्वात्। तथाहि - अन्यस्य दासंज्ञकस्य " दद् दोऽधः " ( ४।१।८० ) इत्यनेन परत्वाद् आदेश इति बाधकः, दधातेस्तु "दधातेर्हिः " (४।१।७८) इति ह्यादेशो बाधकः । ततः परिशिष्टो धेड् विद्यते इति हेमाशयः । अथ पञ्जिकायां किमुक्तं दासंज्ञकस्य ग्रहणम् । टीकायां तु अन्यथेत्यादिना ग्रन्थेन दारूपस्य ग्रहणम् प्रतिपादितम्, तस्मादनयोर्विवादः।
अथ 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि० २८) इति न्यायात् सञ्ज्ञासंभवे कथं दारूपस्य ग्रहणमिति त्रिलोचनाशयः । टीकाकारेण दारूपस्य ग्रहणं कथमुक्तं स्यादेव। यदि संज्ञासम्भवे धेटं विनाऽन्यस्य दासंज्ञकस्य ग्रहणं स्यात् । तथाहि किं “दद् दोऽधः" (४|१|८०) इत्यनेन परत्वादस्य दासंज्ञकस्य ददादेश एवास्ति बाधकः । तस्मात् टीकाकारवचनमेव साध्विति लक्ष्यते ? सत्यम् । नासौ पर्यनुयोगः, त्रिलोचनेन वृत्तावपि तिब्निर्देशः किमित्यनेन संज्ञाग्रहणं प्रतिपादितम् । तस्यायमाशयः - दा इत्युक्ते द्वयमुपस्थितम् - सञ्ज्ञारूपं च तत्र 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि० २८ ) इति न्यायात् संज्ञायाः प्राधान्यमवलम्ब्य वृत्तौ व्यावृत्तिरुक्ता, तथापि यदि परिशिष्टो धेडेव विद्यते इति। तदा सञ्ज्ञाग्रहणमनर्थकमित्युच्यते, तदेवाशयवान् टीकायामाह‘दाप् लवने' (२।२३) इति । अत एव त्रिलोचनोऽपि सम्मत इत्युक्त्वा सन्देहमात्रं प्रतिपादितवानिति ।। ९३१ ।
[समीक्षा]
‘दितः, अवसितः, मितिः स्थितवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में धातुओं के अन्तिम वर्ण को इकारादेश किया गया है। पाणिनि का सूत्र है-‘“द्यतिस्यतिमास्थामित् ति किति' (अ०७४|४० )| अतः उभयत्र समानता ही है ।
[विशेष वचन ] १. तिब्निर्देशो
- इति प्रतिपत्त्यर्थम् (दु० टी० ) |
२. तथापि पाठगौरवं स्यादिति तिपा निर्देश: (वि० प० ) । [रूपसिद्धि]
+
+
1
१४. दितः, अवसितः, मितः स्थितः । दो + क्त सि, अव + सो + क्त + सि, मा + क्त सि, स्था + क्त + सि। 'दो अवखण्डने षोऽन्तकर्मणि, मा माने, ष्ठा गतिनिवृत्तौ’ (३।२२,२१; २।२६, १ । २६७) धातुओं से 'क्त' प्रत्यय, 'ओ-आ' को 'इ' आदेश तथा विभक्तिकार्य ।