________________
कातन्त्रव्याकरणम्
ग्रहणमश्रद्धोपलक्षणमिति यदुक्तं तस्येदं क्त्वीति रूपमेव कारणम् अतः सूत्रत्वादित्युच्यते ॥ ९३० ॥ [समीक्षा]
'हित्वा राज्यं वनं गतः' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'हा' धातुघटित आकार को इकारादेश तथा पाणिनि ने 'हा' को 'हि' आदेश किया है। सूत्र है- “जहातेश्च क्त्वि' (अ० ७।४।४३)। अतः प्रायः उभयत्र समानता है।
१२८
[विशेष वचन ]
१. इदिति तकारः सुखोच्चारणार्थः (दु० टी०)।
२. तिब्निर्देशः पाठसुखार्थ ( दु० टी० ) । [रूपसिद्धि]
१. हित्वा । ओ हाक् त्यागे + क्त्वा + सि। ‘ओ हाक् त्यागे' (२।७१) धातु से “एककर्तृकयोः पूर्वकाले” (४।६।३) सूत्र द्वारा 'क्त्वा' प्रत्यय, प्रकृत सूत्र से आकार को इकार, 'हित्वा' की लिङ्गसंज्ञा, प्रथमा - एकवचन 'सि' प्रत्यय, 'हित्वा' की अव्यय संज्ञा, अतः “अव्ययाच्च' ८ (२१४१४ ) से 'सि' का लुक् ।।९३०।
९३१. द्यतिस्यतिमास्थां त्यगुणे [४।१।७६ ] [सूत्रार्थ]
अगुण तकारादि प्रत्यय के परे रहते 'दो-सो-मा-स्था' धातुओं के अन्तिम वर्ण को इकारादेश होता है ।। ९३१ ।
[दु० वृ०]
एषान्तकारादावगुणे इद् भवति। दो-दितः, दितवान् दितिः, दित्वा। सो-अवसितः, अवसितवान्, अवसितिः । मा मितः, मितवान्, मिति:, मित्वा । स्था-स्थितः, स्थितवान्, स्थितिः, स्थित्वा । अगुण इति किम् ? दाता, साता, माता, स्थाता । तिपा निर्देश: किम् ? धेट् - धीतः, धीतवान् । षणु- सातः, सातवान् ॥९३१।
[दु० टी० ]
द्यति० । तिब्निर्देशो 'दो अवखण्डने षो अन्तकर्मणि' ( ३।२२,२१) इति प्रतिपत्त्यर्थम्। अन्यथा ‘दाप् लवने' (२।२३) इत्यादि दारूप:, सन आत्वे सारूपः। अथ 'दो-षो' इत्यविभक्तिकनिर्देश एवास्ताम्, पाठगौरवं स्यात् । मा इति मा-माङ्मेङां सामान्येन ग्रहणम् । द्यतेर्ददादेशस्यापवादः, शेषाणामीत्वस्य । । ९३१।
-
[वि० प० ]
द्यति०। मा इति। 'मा माने, माङ् माने, मेङ् प्रतिदाने' (२।२६,,१।४६२) इति सामान्येन ग्रहणम्। तिपेत्यादि । अन्यथा 'दा-मा' इति निर्देशे दासंज्ञकमारूप इति मन्यते । ततो धेटः सनोतेश्च "धुटि खनिसनि० " (४।१।७१) इत्यादिना कृतात्वस्य