________________
१६.
१७.
१८.
__ भूमिका अष्टपादेषु गुणवृद्ध्यनिट्लोपतः, शर्ववर्मप्रणीतं त्रिकं कीर्त्यताम्।। १५ । शब्दविद्याऽनुशासनपरा सेव्यताम्। शब्दराशिस्तु रूढः कृदन्ताभिधः शर्ववर्मा न जग्रन्थ तं सूत्रतः। निर्ममेऽ भेदबुद्ध्या तु कात्यायनो वन्दनीयं कलापं बुधैर्वन्द्यताम्।।१६। शब्दविद्याऽनुशासनपरा सेव्यताम्। राजते राजधान्यां तु न्यासः शुभः, कुन्दकुन्दाश्रितो भारतीभासितः। तत्र दिग्वस्त्रजैनीयशासनरतो विद्ययानन्दमाप्तो मुनिर्नन्द्यताम्।।१७। शब्दविद्याऽनुशासनपरा सेव्यताम्। शब्दविद्यानुरागः समुज्जृम्भते यस्य कातन्त्रसूत्रीयसंक्षेपतः। दानमानादिना तस्य संप्रीतये, साधुभिस्तत्समृद्धिः सदा चिन्त्यताम्।। १८ । शब्दविद्याऽनुशासनपरा सेव्यताम्।
सिद्धिसोपानरूपा सदा सेव्यताम्।।। प्रकृतकृत्प्रकरणस्यास्य चतसृषु व्याख्यासु बहूनि वैशिष्ट्यानि सन्निहितानि सन्ति। यदि क्वचिदनभिधानवशात् कार्याणि नैव प्रवर्तन्ते तर्हि कानिचित् कार्याणि अभिधानवशादेव विधीयन्ते। कृत्तद्धितसमासानामभिधानलक्षणत्वमङ्गीकृतम्। अभिधानबलेन कतिपये छान्दसाः शब्दा अपि भाषायां प्रयुज्यन्ते। शर्ववर्माचार्यस्याभिमतमस्ति यद् औणादिकाः शब्दाः सन्ति अव्युत्पन्ना इति। सम्प्रदायेऽप्रचलित मतमिहानाद्रियते। उक्तार्थानामप्रयोग इति पर्वाचार्यमतं व्यवस्थापयता व्याख्याकारेण ऋषिवचनस्य प्रामाण्यमुद्घोषितम्। 'गुरुलाघवचिन्ता, छान्दसानां शब्दानामिहानादरः, प्रतिपत्तिरियं गरीयसी, रूढित: सिद्धिः, विवक्षा गरीयसी, विवक्षात: कारकाणि' इत्यादिविषयेष विवेचनापुरस्सरं स्वाभिप्राय: प्रकाशितो व्याख्याकारैः। शिष्टप्रयुक्तकार्यस्य प्रामाण्यमङ्गीकृतं सर्वत्र। क्वचित् सूत्ररचनाया वैचित्र्यमुद्घोषयताऽरुचिः प्रदर्शिता। 'अयमर्थ:- अस्यार्थः, वस्तुतः' इत्यादिशब्दविशेषैर्मतभेदसमीक्षणपुरस्सरं तत्तदविषये स्वीयं तात्पर्य व्यवस्थापितम्। अनुबन्धादियोजनाविषये समाधानपक्षप्रदर्शनोद्देश्येनेदमसन्देहार्थम् उच्चारणार्थ