________________
कातन्त्रव्याकरणम् तत्र सन्धिप्रभेदं न जानन् नृपः, 'मोदके' गुणकृतं 'मा-उदक' शब्दयोः। मोदकानर्पयन् प्रीतिमादर्शयन्, संबभूवोपहासार्ह आध्यायताम्।।९। शब्दविद्याऽनुशासनपरा सेव्यताम्। मुर्खतामाक्षिपन्ती तु राज्ञी तदा, मन्दहासेन चक्रे नृपं चिन्तितम्। नैव विद्धः स लेभे क्वचिन्निवृति शब्दविद्यारहस्यं यतो ज्ञायताम्।।१०। शब्दविद्याऽनुशासनपरा सेव्यताम्। शाब्दिकः शर्ववर्मा प्रतिज्ञातवान्, षट्सु मासेषु विद्यां प्रदास्यामि ते। इष्टदेवो रजन्यां समाराधितस्तेन सूत्रं तदीयं मया प्राप्यताम्।।११। शब्दविद्याऽनुशासनपरा सेव्यताम्। कार्तिकेयेन सत्रं प्रदत्तं प्रियं शर्ववर्माभिधाचार्यवर्याय वै। वाक्समानायतत्त्वस्य संबोधकं लोकसिद्धस्य सर्वं बुधैर्बुध्यताम्।।१२। शब्दविद्याऽनुशासनपरा सेव्यताम्। मोदमासाद्य सूत्रस्य संप्राप्तितः, 'मोदकं देहि' - वाक्यं तदा संस्मरन्। पञ्चपादेषु सन्धिं विधायादितः षट्सु नानां चतुष्कं च संधार्यताम्।।१३। शब्दविद्याऽनुशासनपरा सेव्यताम्। उत्तरार्धत्रिके कारकं षड्विधं षविधो वै समासस्ततो दृश्यते। वर्णितस्तद्धितो दाक्षिणात्यादृतो मोदके सन्धिनामद्वयं गीयताम्।।१४। शब्दविद्याऽनुशासनपरा सेव्यताम्। 'देहि'- त्याद्यन्तरूपं पदं भाषितं मोदकानन्तरं तन्निबद्धं ततः।
१४.