________________
भूमिका सूत्रभाष्यानुवादैश्च खिलवार्त्तिकैः, कौमुदीफक्किकान्यासटीकादिभिः । देशदेशान्तरे भाति या वृत्तिभिस्तत्र सद्भिः स्वतः श्रेयसे स्थीयताम्।।३। शब्दविद्याऽनुशासनपरा सेव्यताम्। वाङ्मलस्यौषधिः सम्मता सा बुधैर्मोक्षमाणस्य स्यात् सत्कृता पद्धतिः। धारिता देवदेवारिभिर्मानवैः रङ्गनाबालबालादिभिर्धर्यताम्।।४। शब्दविद्याऽनुशासनपरा सेव्यताम्। पाणिनेः प्रक्रिया दृश्यते दुष्करा, शब्दसिद्ध्यर्थमाश्रीयते याऽधुना। सत्रकार्यादिवैचित्र्यनिर्बन्धतः शिष्टबोधाय धीमद्भिराधीयताम्।। ५। शब्दविद्याऽनुशासनपरा सेव्यताम्। शर्ववर्मप्रणीता कलापाभिधा, या च कातन्त्रनामाऽप्यलं विश्रुता। शम्भुना कार्तिकेयेन सम्मानिता, शब्दरूपाऽऽशुबोधाय साऽऽराध्यताम्।।६। शब्दविद्याऽनुशासनपरा सेव्यताम्। श्रूयते आन्ध्रदेशीयशासनरतः, सातवाहननृपो भूतले विश्रुतः।। एकदाऽऽक्रीडमानो यदासीज्जले, तावदेका प्रिया भाषते श्रूयताम्।।७। शब्दविद्याऽनुशासनपरा सेव्यताम्। या बभूवातिश्रान्ताऽम्बुप्रक्षेपतः, शब्दविद्याऽवबोधे बुधैर्वन्दिता। सम्मता या सतां श्रेयसा संस्कृता, 'मोदकं देहि मह्यम्' प्रभो! प्रीयताम्।।८। शब्दविद्याऽनुशासनपरा सेव्यताम्।