________________
कातन्त्रव्याकरणम्
एकोनाशीतिसूत्रैः (७९) निबबन्ध । ततश्च मोदकमिति स्याद्यन्तपदम् (नामपदम्) अनुसृत्य षट्सु पादेषु नामचतुष्टयाख्यं प्रकरणं च सप्तत्रिंशदधिकशतत्रयमितैः (३३७) सूत्रैर्निबद्धवान्। चतुर्दशे पद्ये नामचतुष्टयप्रकरणस्य चतुर्थे पादे द्विपञ्चाशत्सूत्रैः षड्विधं कारकम्, पञ्चमे पादे छन्दोबद्धैरैकोनत्रिंशत्सत्रैः षड्विधं समासम्, छन्दोबद्धैः पञ्चाशत्सूत्रैर्दाक्षिणात्यादृतं तद्धितं च रचयामास शर्ववर्मेति विवृतम्। पञ्चदशे पद्ये मोदकानन्तरं 'देहि' इति यत् त्याद्यन्तरूपं पदं प्रयुक्तम्, तदनुसारेणाष्टसु पादेषु एकोनचत्वारिंशदधिकशतचतुष्टयमितैः (४३९) सूत्रैराख्यातप्रकरणं परिभाषितम् । अत्र गुणवृद्ध्यादिभिर्विविधैः कार्यैः कालभेदाः प्रकीर्तिताः सन्ति। षोडशे पद्ये कृत्यप्रत्ययान्तान् शब्दान् वृक्षादिशब्दवद् रूढान् मन्यमानः शर्ववर्मा तदर्थं नैव सूत्राणि रचयामास । ततोऽभेदबुद्ध्या कात्यायनमुनिः षट्चत्वारिंशदधिकपञ्चशतमितैः (५४६) सूत्रैः षट्सु पादेषु कृत्प्रकरणं प्रणीतवान्। एतावदेवाध्यायचतुष्टयात्मकं पञ्चविंशतिपादात्मकमेकाधिकचतुर्दशशतसूत्रात्मकं कातन्त्रव्याकरणं मूलभूतमवगन्तव्यमस्ति । सप्तदशे पद्ये कातन्त्रव्याकरणमधिकृत्याचार्य-उमास्वामि-पुरस्कारेण सम्मानप्रदानपरस्य श्रीकुन्दकुन्दभारतीन्याससर्वस्वस्य महाराजश्रीविद्यानन्दमुनेरभिनन्दनीयता प्रकाशिता। अष्टादशे श्रीविद्यानन्दमुनेः प्रीत साम्प्रतं जैनसमाजेन कातन्त्रव्याकरणस्याध्ययनादिव्यवस्था सुचारुरूपेण विधेयेति प्रकाशितः ।
च
६
१.
२.
गीतम् शब्दविद्याऽनुशासनपरा सेव्यताम् । सिद्धिसोपानरूपा सदा सेव्यताम् ।। ब्रह्मणाऽऽविष्कृता संस्कृतेन्द्रादिभिः, सूत्रिता या शुभा शर्ववर्मादिभिः । दाक्षिपुत्रेण चन्द्रामरस्वामिभिः, प्रापिता या समृद्धिं सदाऽधीयताम् ।। १ । शब्दविद्याऽनुशासनपरा सेव्यताम् । बोधिता वर्णसूत्रैः स्वयं शम्भुना, दाक्षिपुत्राय ढक्कानिनादेन या । वर्धिताऽज्झल्खरिक्शर्यणिण्णादिभिः, शब्दसारस्य संग्राहकैर्गृह्यताम् ।।२। शब्दविद्याऽनुशासनपरा सेव्यताम् ।
महाराजगौरवग्रन्थस्यास्य स्वकीयमनोभावः