________________
भूमिका
एवमवगन्तव्य:
गीतस्य ध्येयमस्ति यत् शब्दानामनुशासनं यत्र यया वा क्रियते सा शब्दविद्या शब्दब्रह्मणः सिद्धौ सोपानायते । अतः सा सदैव सेवनीयेति । प्रथमपद्ये शब्दविद्यायाः प्रादुर्भावस्तत्र विविधाः संस्कारास्तस्याः सूत्रेषु निबन्धनं संवर्धनं च दर्शितम् । द्वितीयपद्ये कथं महेश्वरेण स्वकीयं व्याकरणं पाणिनये उपदिष्टम्, पाणिनिना तत् कथं संवर्धितम्, कथं च तद् ग्राह्यं भवतीति निर्दिष्टम् । तृतीयपद्ये यस्याः शब्दविद्याया देशे देशान्तरेषु च वृत्त्यादयो विविधव्याख्याग्रन्था विलसन्ति सा श्रेयःसम्प्राप्तये नूनमेवाश्रयणीयेत्यवगन्तव्यम् । चतुर्थे पद्ये या शब्दविद्या वाग्दोषाणामौषधम्, मुमुक्षूणां कृते सरला राजपद्धतिश्चाभाति, सा देवादिभिः समादृता सती साम्प्रतं स्त्रीजनैर्बालैर्बालाभिश्चापि समादरणीयेति भाव: प्रकाशित: । पञ्चमे प शब्दसिद्ध्यर्थमद्यत्वे आश्रीयमाणं पाणिनीयं व्याकरणं दुष्करमपि शिष्टज्ञानार्थमवश्यमेवावधारणीयमिति तात्पर्यमभिव्यञ्जितम्।
षष्ठे पद्ये आचार्यशर्ववर्मप्रणीतं कातन्त्रव्याकरणं कार्त्तिकेयेनोपदिष्टं सद् महेश्वरस्यापि सम्मतं वर्तते । सरलता संक्षेपश्चेति वैशिष्ट्यद्वयेन तदवश्यमध्येतव्यमिति स्वकीयं हार्दमुक्तम्। सप्तमे पद्ये दर्शितं यद् आन्ध्रदेशीयो राजा सातवाहनो यदा महिषीभिः समं दीर्घकालपर्यन्तं जलक्रीडायां निरतो बभूव तदा काचिदेका राज्ञी तं प्रार्थयते जलविहाराद् विरामग्रहणाय । अष्टमे पद्ये व्याकरणज्ञानशीला, जलविहारेण नितान्तं श्रान्ता सती कल्याणी कनिष्ठा ब्राह्मणजातीया राज्ञी 'मह्यम् उदकम् मा देहि' इत्यभिप्रायेण 'मोदकं देहि' इति वचनं भाषितवती । नव व्याकरणानभिज्ञो राजा सातवाहनो मोदकमित्यत्र 'मा + उदकम् ' इति सन्धिविच्छेदं नैव विज्ञातवान्। अतस्तेन तदानीं प्रीतिपूर्वं बहवो मोदकाः समर्पिताः । अनवसरे मोदकप्रदानरूपं राज्ञः कार्यमिदमुपहासास्पदं बभूव । दशमे पद्ये राज्ञो मूर्खतामाकलयन्ती राज्ञी राजानमाक्षिप्तवती (उपहसितवती), उपहासेन तिरस्कृतो राजा मनसि व्याकरणज्ञानप्राप्तिं प्रतिज्ञाय राजसभां नैव प्रविवेश। एकादशे पद्ये राज्ञोऽभिप्रायं विज्ञाय सभापण्डितः शर्ववर्मा संकल्पितवान् यदहमेतादृशं व्याकरणं विरचयितुं समर्थोऽस्मि, यस्याध्ययनेन कोऽपि जन: षट्सु मासेष्वेव व्याकरणज्ञानसम्पन्नो भवेदिति । ततस्तेन रात्रौ सूत्रसम्प्राप्तये भगवान् भवानीसुतः कार्त्तिकेयः समाराधितस्तोषितश्च । द्वादशे पद्ये निजव्याकरणज्ञानमाविर्भावयितुं स्वामिकार्त्तिकेयो लौकिकवर्णसमाम्नायबोधकं पद्यपादरूपं सूत्रमुपदिदेश — "सिद्धो वर्णसमाम्नाय : " इति ।
त्रयोदशे पद्ये सूत्रसम्प्राप्त्यनन्तरम् आचार्यः शर्ववर्मा 'मोदकम्' इत्यत्र 'मा+उदकम्' सन्धि-विच्छेदमनुसृत्य पञ्चपादात्मकं सन्धिप्रकरणमादौं
इति