________________
कातन्त्रव्याकरणम् नोपलभ्यते। तत्र रघुनन्दनभट्टाचार्यकृता कलापतन्वार्णवाख्या व्याख्या सम्पन्यस्ता। व्याख्याकारस्य वंशकालादिपरिचयः कश्चित्रोपलभ्यते, तथापि भट्टाचार्येत्यपाधिवशाद वङ्गाक्षष् व्याख्याया उपलब्धिवशाच्चायं वङ्गदेशीया बभूवेति निश्चयेन वक्तं शक्यते। प्रतिज्ञावचनानुसारेण व्याख्याकारः कृष्णभक्तो वैष्णवः प्रतीयते। व्याख्यायां वृत्ति-टीकादिव्याख्यानानामभिमतानि संगृहीतानि। अन्य-कश्चिदित्यादिप्रतीकैः पूर्वाचार्याणामपि केषांचिन्मतानि समीक्षितानि। कृत्प्रकरणस्य सर्वेषु षट्सु पादेषु वृत्तिरियं प्राप्यते। लदीयं प्रतिज्ञावचनं श्लोकद्वये एवमुपलभ्यते
प्रणम्य परमं देवं गोपालं चित्तनन्दनम्। करोमि शब्दशास्त्रस्य वृत्तिं प्रस्फुटितां शुभाम्।। १। सदर्थामृतलाभाय सूक्तिरत्नाय च द्रुतम्।
कलापपूर्वतत्त्वात्मा समुद्रः सेव्यतामयम्।।२। इति। कातन्त्रव्याकरणस्याध्ययनमहमष्टषष्ट्यधिकैकोनविंशतिशततमयोशवीयाब्दस्य जनवरीमासे आरब्धवान्, कातन्त्रव्याकरणविमर्शमधिकृत्य द्विसप्तत्युत्तरैकोनविंशतिशततमयीशयीयाब्दस्य मार्चमासे वाराणसेयसंस्कृतविश्वविद्यालयीयं वाचस्पति(डी०लिट०) शोधोपाधिं च सम्प्राप्तवान्। ततः प्रारभ्याद्यावधि कातन्त्रव्याकरणविषयकान् नवसंख्याकान् ग्रन्थान् सम्पादितवान्, अष्टादशशोधलेखांश्च तत्र लिखितवान्। एषा सर्वा सामग्रो प्रायेण प्रकाशिता वर्तते। 'कातन्त्रव्याकरण का बृहद् इतिहास' प्रभृतयः केचिन्महनीया ग्रन्था लेखनसम्पादनयोजनाधीनाश्च सन्ति। एवं कातन्त्रीयाध्ययनानुशीलनसमीक्षादिभिः कश्चिदनुभवविशेषस्तस्य मया सम्प्राप्तः। __व्याकरणं भवति शब्दानुशासनम्, अत एव तद् शब्दविद्यापदेनाप्यभिधीयते। एवं मन्यते यत् शब्दविद्यायाः प्रादुर्भावो ब्रह्मणः सकाशादेव सञ्जातः। तदनन्तरम् इन्द्रादिभिराचार्य: प्रकृतिप्रत्ययादेशागमादिभिरियं विशेषेण संस्कृता। सूत्रेषु निबद्धेयं बहभिराचार्यैर्वृत्तिवार्तिकभाष्यादिभिः संवर्धिता। इदं नाविदितं विषां यद भगवता महेश्वरेण वर्णसूत्रमाध्यमेन स्वकीयं व्याकरणं पाणिनये उपदिष्ट मासीत्। विद्यावारिधि (पी-एच०डी०)- उपाधे: शोधकार्यपर्यन्तमनवरत मया तदेवाधीतम्, परं वाचस्पति- (डीलिट०) उपाधे: शोधकार्यादारभ्य शर्ववर्माचार्यप्रणीतं कातन्त्रव्याकरणं मया मुख्यतोऽधीतम् अनुशीलितं च। अथ कातन्त्रीयसूत्राणां चतुर्दशशतपरिमितानां पाणिनीयसूत्रः सह, षष्ट्यधिकशतत्रयसूत्राणां च कच्चायनव्याकरणस्य सूत्रैः सहोत्कर्षापकर्षविवेकादिरूपा या समीक्षा कृता, तत: संग्राह्यः कश्चिदनुभवविशेषोऽपि सम्प्राप्तः। एवं शब्दविद्यायाः प्रादुर्भावादारभ्य कातन्त्रीयरचनानुभवविशेषप्राप्तिपर्यन्तं तदीयविषयाणामुपनिबन्धनम् एकस्मिन्नष्टादशपद्यात्मके गीते मया कृतम्। अष्टादशपद्येषु निदर्शितानां विषयाणां संक्षेपेण परिचय