SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ३ भूमिका वर्तते शर्ववर्माभिमतप्रक्रियासिद्धान्तैः सह वररुचिप्रणीत-कृत्सूत्रप्रक्रियासिद्धान्तानामभिन्नतावबोधः। संस्कृतव्याकरणशास्त्रस्येतिहासग्रन्थे युधिष्ठिरमीमांसकस्य समुद्भावनानुसारेण महाराजविक्रमस्य पुरोहितः कात्यायनगोत्रीयो वररुचिरेव कृत्सूत्रप्रणेता भवेत्। अहमदाबादस्थे लालभाई-दलपतभाईभारतीसंस्कृतिविद्यामन्दिरे वररुचिना कृता कृवृत्तिरवाप्यते। स वररुचिः कृत्सूत्रकाराद् वररुचेर्भिन्नः कश्चित् प्रतीयते, यतो हि दुर्गसिंहकृतं 'वृक्षादिवदमी रूढाः' इत्यादिश्लोकवचनं तत्रापि समुद्धृतमुपलभ्यते। वृत्तेरन्ते पाठो वर्तते- "इति पण्डितवररुचिकृतायां कृवृत्तौ षष्ठः पादः समाप्तः" इति। प्रसङ्गेऽस्मिन्निदमप्यवधेयं यद् वररुचिप्रणीतकृत्सूत्राण्यधिकृत्याचार्येण वररुचिना चैत्रकूटीवृत्तिरेका लिखितासीद् या साम्प्रतं नोपलभ्यते। वृत्तेस्तस्याः प्रारम्भे वररुचिकृतं श्लोकवचनं दुर्गसिंहः स्वकीयवृत्तिग्रन्थस्यादौ समुद्धरति देवदेवं प्रणम्यादौ सर्वज्ञं सर्वदर्शिनम्। कातन्त्रस्य प्रवक्ष्यामि व्याख्यानं शार्ववर्मिकम्।। इति। व्याख्यासाराख्यव्याख्यायां हरिरामभट्टाचार्यः कलापचन्द्रे कविराजसुषेणविद्याभूषणश्चोक्तवचनं वररुचिना कृतमिति स्पष्टतः समाख्याति।। कृत्सूत्राणां व्याख्याग्रन्थाः साम्प्रतमुपलभ्यन्ते- १. दुर्गसिंहकृता वृत्तिः। २. दुर्गसिंहकृता वृत्तिटीका! ३. त्रिलोचनदासकृता विवरणपञ्जिका। ४. कविराजसुषेण-विद्याभूषणकृतः कलापचन्द्रः। ५. रघुनन्दनभट्टाचार्यशिरोमणिकृतः कृत्शिरोमणीत्यपरपर्याय: कलापतत्त्वार्णवः। ६. हरिरामभट्टाचार्यप्रणीतो व्याख्यासारः। ७. वादिपर्वतवज्र-भावसेनप्रणीता कातन्त्ररूपमाला। ८. शिवरामशर्मकृता कृन्मञ्जरी। ९. जगद्धरभट्टकृता बालबोधिनी। १०. उग्रभूतिकृतो बालबोधिनीन्यासः। ११. वर्धमानविरचितः कातन्त्रविस्तरः। १२. कर्मधरप्रणीत: कातन्त्रमन्त्रप्रकाशः। १३. राजानकशितिकण्ठप्रणीतो बालबोधिनीन्यास:! १४. कातन्त्रकौमुदीप्रभृतयश्च। कातन्त्रीयकृत्प्रकरणे षट्चत्वारिंशदधिकपञ्चशतसूत्राणि (५४६) पठ्यन्ते। प्रथमे सिद्धिपादे चतुरशीतिः (८४), द्वितीये धातुपादे षट्षष्टिः (६६), तृतीये कर्मपादे पञ्चनवतिः (९५), चतुर्थे क्वन्सुपादे द्विसप्तति: (७२), पञ्चमे उणादिपादे त्रयोदशाधिकशतम् (११३), षष्ठे धातुसम्बन्धपादे च षोडशाधिकैकशतं (११६) सन्ति सूत्राणि। सम्पादितानां चतसृणां व्याख्यानां संक्षिप्तपरिचयः प्रथमभागस्य भूमिकायां (पृ० ८-११) प्रस्तुतः। प्रकृतखण्डस्य षष्ठपादे कविराजसुषेणविद्याभूषणकृत: कलापचन्द्रो
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy