________________
१२४
कातन्त्रव्याकरणम्
२-३. सातः। सन् + क्त + सि। जातः। जन् + क्त - सि। 'षण दाने; जनी प्रादुर्भावे' (७।२;३।९४) धातुओं से 'क्त' प्रत्यय आदि कार्य पूर्ववत्।
४-६. खातिः। खन् + क्ति + सि। सातिः। षणु + क्ति + सि। जातिः। जन् । क्ति + सि। 'खन् - षणु - जन्' धातुओं से “स्त्रियां क्ति:' (४।५।७२) सूत्र द्वारा ‘क्ति' प्रत्यय तथा अन्य कार्य पूर्ववत्।
७. सिषासति। सन् + सन् + अन् + ति। सनिमिच्छति। 'षण दाने' (७।२) धात से "धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्' (३।२।४) सूत्र द्वारा 'सन्' प्रत्यय, "चण्परोक्षाचेक्रीयितसनन्तेषु'' (३।३।७) से द्वित्व, अभ्यासकार्यादि, प्रकृत सूत्र से णकार को आकार, धातुसंज्ञा, 'ति' प्रत्यय, अन् विकरण तथा “अकारे लोपम्' (२।१।१७) से सन्प्रत्ययस्थ अकार का लोप।।९२६।
९२७. ये वा [४।१।७२] [सूत्रार्थ
'य' प्रत्यय के परे रहते ‘खन् -सन् - जन्' धातुओं के नकार को आकारादेश विकल्प से होता है।।९२७।
[दु० वृ०] __ एषां पञ्चमस्याकारो भवति वा ये परे। प्रखाय, प्रखन्य। प्रसाय, प्रसत्य। प्रजाय, प्रजन्य। एवं खायते, खन्यते, चाखायते, चंखन्यते। "जा जनेर्विकरणे" (३१६८१) नित्यम् - जायते। व्यवस्थितविभाषया घ्यणि ये न स्यात् – सान्यम्, जन्यम्। अगुणं स्मरन्ति एके। तनोतेर्यणि वा वक्तव्यम्-तायते, तन्यते।।९२७/
[दु० टी०]
ये०। अप्राप्ते विभाषा। व्यवस्थितेत्यादि। जन्यमिति। "जनिवध्योश्च' (३।४।६७) इति ह्रस्वः। अगुणाधिकारं स्मरन्ति एके। 'ये' इति प्रत्ययनिर्देशो न वर्णनिर्देशः। तेन 'खन्यात्', इत्यत्रात्वं न भवति। केचिद् अत्रापि भवतीति प्रतिपद्यन्ते-सायात्, खायात्। तनोतेर्वेत्यादि वक्तव्यम् = व्याख्येयम् । एके नेच्छन्ति, तन्मतमिह प्रमाणमित्यर्थः। येषां तनोतेरिति सूत्रमस्ति, तेषां निर्देशार्थ एव न चेक्रीयितलुनिवृत्त्यर्थः।।९२७।।
[वि० प०]
ये। प्रसत्येति। "यपि च" (४।१।६०) इति पञ्चभलोपे "धातेस्तोऽन्तः" (४।१।३०) इति तोऽन्तः। चंखन्यते इति। "अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य" (३।३।३१) इत्यनुस्वारागमः। जन्यमिति। "जनिवध्योश्च" (३।४।६७) इति ह्रस्वः। वक्तव्यं व्याख्येयम्। केचिद् इच्छन्ति केचित्रेच्छन्ति, तदिह प्रमाणमित्यर्थः।।९२७।
[समीक्षा]
'प्रखाय-प्रखन्य, चाखायते-चंखन्यते' इत्यादि शब्दरूपों के सिद्ध्यर्थ नकार को वैकल्पिक आकारादेश दोनों ही शाब्दिक आचार्यों ने किया है। पाणिनि का सूत्र है - “ये विभाषा' (अ०६।४।४३)। अत: उभयत्र समानता है।