________________
१२१
चतुर्थे कृतात्ययाध्याये प्रथमः सिद्धिपादः
९२५. विड्वनोरा [४।१।७०] [सूत्रार्थ)
'विट्' तथा 'वन्' प्रत्यय के परे रहते धातुघटित पञ्चम वर्ण के स्थान में आकारादेश होता है।।९२५।
[दु० वृ०]
विटि वनि च प्रत्यये परे पञ्चमस्याकारो भवति। विट-अब्जाः। गोषाः, सनोते: षत्वम्। वनिप्-विजावा, अग्रेगावा। ओण - अवावरी। "वनो र च" (कात० परि०स्त्री- प्र०, सू० ५) घुण-घ्वावा। क्वनिप्। सानुनासिकमप्याकारमिच्छन्ति।।९२५।
[दु० टी०]
विट०। इविदिव्योरिदनुबन्धत्वाद् अनुषङ्गत्वे य्वोर्व्यञ्जने वलोपे सति नकारस्यात्वे यावा, द्यावेति। विडिति। विट क्रमिगमिखनिसनिजनां क्वनिब्वनिपोर्विशेषकरानुबन्धानुत्सृज्य वन्मात्रमिह गृह्यते। सानुनासिकमित्यादि। अत्र "स्थानेऽन्तरतमः" (का० परि० १६) इति परिभाषया अनुनासिक एव प्राप्नोतीति व्यक्तिराश्रीयते। जातिरपि सानुनासिकार्थम्। पञ्चमेन धातुर्विशिष्यते पञ्चम एवाकारो भवतीत्यभेदनिर्देशेऽप्यदोषः।।९२५।
[वि० प०]
विट। 'अब्जाः, गोषाः' इति। अप्सु जायते, गां सनोतीति विगृह्य "विट्क्रमिगमिखनिसनिजनाम्" (४।३।६४) इति विट। षत्वमिति। तत्रापिग्रहणादित्यर्थः। वनिबिति। "अन्येभ्योऽपि दृश्यन्ते'' (४।३।६७) इति विहितयोः क्वनिब्वनिपोरुत्सृष्टानुबन्धयोर्ग्रहणं विज्ञायते। अग्रे गच्छतीति वनिप्। अवावरीति। 'ओण अपनयने' (१।१४७), वनिप। णकारस्याकारे ओ अव् । "वनो र च" (कात० परि०-स्त्री०प्र० सू० ५) इति नदादिदर्शनाद् ईप्रत्ययः, तत्सन्नियोगे च वनो नकारस्य रेफ: सानुनासिकमिति ने केवलं निरनुनासिकमपीत्यपिशब्दार्थः। कथं "स्थानेऽन्तरतमः" (का० परि० १६) इति न्यायेन सानुनासिक एव भवितुमर्हतीति? सत्यम्, इह व्यक्तिराश्रिता यथाश्रुताकारपरिग्रहार्थं निरनुनासिको हि सूत्रे श्रुत इति। जातेरपि परिभाषाया अनुप्रवेशेन सानुनासिकार्थमाश्रीयते इति न दोषः।।९२५।
[क० च०]
विट्०। यावेति अन्तस्थादिपाठः। कस्यचिन्मतं टीकायाम् इविदिव्योरिदनुबन्धत्वादित्यनयोरेव यावा-द्यावेति साधितत्वाद् वृत्तौ जावेति वादिपाठोऽशुद्ध एवेति। केचित्तु जनधातोर्विजावेति रूपमुक्तम् अभिधानादन्तस्थादिरूपमपि टीकायामुक्तमित्याहुः। ननु “विड्वनोर'' इति ह्रस्व एव क्रियताम्, किं दीर्घपाठेन। एवमपि 'अब्जाः' इत्यादेः सिद्धत्वात्? सत्यम्, अवावरीति न सिध्यति। "वनो र च" (कात० परि०-स्त्रीप्र०, सू० ५) इति नदादिसूत्रम्। अस्यार्थः-वनो नकारस्य रेफो भवति चकारादीश्च। ननु