________________
११८
कातन्त्रव्याकरणम् 'युवुझामनाकान्ताः'' (४।६।५४) से 'वु' को 'अक' आदेश, प्रकृत सूत्र से नकारलोप, 'ष्' अनुबन्ध नदाद्यर्थ, अत: स्त्रीलिङ्ग में 'ई' प्रत्यय तथा विभक्तिकार्य ।
२. रागी। रन्ज् + घिणिन् + सि। 'रन्ज्' धातु से “युजभजभुजट्रिप' (४।४।२२) इत्यादि सूत्र द्वारा ‘घिणिन्' प्रत्यय, इज्वद्भाव, नलोप, “अस्योपधाया दीर्घो०' (३।६।५) से उपधादीर्घ, “चजोः कगौ'' (४।६।५६) से जकार को नकार, लिङ्गसंज्ञा तथा विभक्तिकार्य।।९२२।
९२३. बृंहेः स्वरेऽनिटि वा [४।१।६८] [सूत्रार्थ]
इडागमभिन्न स्वरादि प्रत्यय के परे रहते ‘बृन्ह्' धातु में पञ्चम वर्ण नकार का लोप विकल्प से होता है।।९२३।
[दु० वृ०]
बृंहः स्वरादावनिटि पञ्चमो लोप्यो भवति वा। बर्हकः, बृंहक:। बर्हणम्, बर्हति, बृंहति। अनिटीति किम्? बृंहितव्यम् । स्वर इति किम् ? बृंहेर्मन् दृश्यते। परिबंशा, परिबृण्ढिः। स्त्रियां क्तिः। कथं बृह्यते, बृह्यते। बर्हिता, बृंहिता? येषां मते प्रकृत्यन्तरमस्ति, तेषां मते व्यञ्जनादाविट्यपि स्यात् ।।९२३।
[दु० टी०]
बृहः। बृंहतिरयमिदनुबन्धस्तस्य सर्वत्र नकारश्रवणे स्वरादावनिटि पञ्चमलोप आरभ्यते। कथमित्यादि। बृहिरनिदनुबन्धः प्रकृत्यन्तरमित्यर्थः। अन्य आह-सत्यपि प्रकृत्यन्तरे त्विनि बृंहयतीति भवितव्यम् । स्वरादौ तु नेष्यते इति भावः। अपरे द्वौ धातू पठन्ति-'बृह बृहि वृद्धौ' (बृहि वृद्धौ, बृहिर् शब्दे च (१।२४७,२४८), तेषां धातुपारायणेन विरोध:। तस्मात् सूत्रकारमतमेव न्याय्यम् । तथा च श्रुतपालोऽप्याह'बृहयतीत्येतत् क्वचिदपि मा भूदित्युपसंख्यायते'।।९२३।
[वि० प०]
बृंहे:। बृहि वृद्धौ (१।२४७) इतीदनुबन्धः। कथमित्यादि। अनिदनुबन्धः प्रकृत्यन्तरमस्तीति भावः।।९२३।
[क० च०]
बृंहेः। पञ्जिका-अनिदनुबन्ध इत्यादि। नन्वस्य मते धातुद्वयेन रूपद्वयस्य सिद्धत्वाद् अनर्थकमिदं वचनम् । तत्राह कश्चित् - अस्य मते सूत्रं नास्ति कुतस्तस्याभाव: इति, तत् तुच्छम्। सूत्राभावे बर्दा इति प्रयोगो न स्यात् । न च वक्तव्यम् । बृंहेरनिदनुबन्धस्योदाहरणम्, गुरुमत्त्वाभावाद् अप्रत्ययस्यानुपपत्तेस्तस्माद् बृहेरिदनुबन्धस्य तत् सिध्यति, एतच्च वचनमन्तरेण न स्यात् । तथा च वररुचिः