________________
११६
कातन्त्रव्याकरणम्
[दु० वृ०]
स्यन्देर्घञि ‘स्यदः' इति दीर्घाभावो निपात्यते वेगेऽर्थे। स्यदः। अवोदहिमश्रथप्रश्रथाश्च निपातयितव्याः। अवपूर्वस्य उन्दे:-अवोदः। हिमपूर्वस्य च श्रन्थ:-हिमश्रथ:, प्रश्रथः।।९२०।
[दु० टी०]
स्यद०। वेगेऽभिधेये इत्यर्थ:। वेग इति किम् ? तैलस्यन्दः, घृतस्यन्दः। हिमश्रथादयो हि छान्दसा इति नैयासिकानां मतम् । तदिह प्रमाणम्, मतान्तरं वृत्तौ दर्शितमिति भावः।।९२०।
[वि० प०]
स्यदः। अवोद इत्यादि। मतान्तरमिदम् । एते हि छान्दसा इति नैयासिकास्तदिह प्रमाणमिति।।९२०॥
[क० च०]
स्यद०। दीर्घाभाव इति। ननु ‘स्यदः' इति द्वौ निपातनीयौ नलोपो दीर्घाभावश्च। नहि घञि नलोपार्थं सूत्रान्तरमस्ति? सत्यम् । दीर्घाभावो मुख्यत्वेन निपातनीयः। 'स्यन्देर्जवे' इत्युक्तेऽपि लोपस्य सिद्धत्वात्, अतो दीर्घाभाव इत्युक्तम्। यद् वा दीर्घाभावग्रहणेन नलोपमपि उक्तवान् इति। अन्यथा यदि नलोपो नास्ति, तदाऽनपधत्वाद् दीर्घोऽपि नास्ति। कुतस्तस्याभाव इति वक्तुमुचितम् इत्यध्याहारेणान्वय इति केचित् ।।९२०।
[समीक्षा]
'स्यदः, गोस्यदः, अश्वस्यदः' आदि शब्दरूपों के सिद्ध्यर्थ नलोप दोनों ही व्याकरणों में निपातन से विहित है। पाणिनि का सूत्र है- “स्यदो जवे'' (अ०६।४।२८)। अत: उभयत्र समानता ही है।
[विशेष वचन] १. हिमश्रथादयो हि छान्दसा इति नैयासिकानां मतम् (दु०टी०;वि०प०)। [रूपसिद्धि]
१. स्यदः। स्यन्द् + घञ् + सि। ‘स्यन्दू स्रवणे' (१।४८७) धातु से घञ् प्रत्यय, 'घ् - ञ्' अनुबन्धों का प्रयोगाभाव, नलोप, दीर्घाभाव तथा विभक्तिकार्य।।९२०।
९२१. रन्जे वकरणयोः [४।१।६६] [सूत्रार्थ)
भाव तथा करण अर्थ में विहित 'घञ्' प्रत्यय के परे रहते 'रन्ज रागे' (१।६०५) धातुघटित पञ्चम वर्ण नकार का लोप होता है।।९२१।
[दु० वृ०]
रन्जे वकरणयोर्विहिते घञि पञ्चमो लोप्यो भवति। रञ्जनं रागः। रज्यतेऽनेनेति रागः। भावकरणयोरिति किम् ? रजत्यस्मिन्निति रङ्गः।।९२१।