________________
चतुर्थे कृतात्ययाध्याये प्रथमः सिद्धिपादः विद्यासागरोऽप्याह-वनते: क्तावेवानिडिति न्यासः। अथ दण्डकपठितस्य वनेर्ग्रहणे किं मानम् ? 'वनु च नोच्यते' (१।५१८) इत्यस्य घटादिपठितस्य ग्रहणं कथं न स्यात्, अत एव 'वनु-वत:' इत्यादिपाठो दृश्यते क्वचित् पुस्तकान्तरे। अस्य तु निष्ठायां वाऽनिट्त्वमस्ति, नैवम् । 'वनु याचने' (७।८)। 'वान्तः, वान्तवान् ' इति धातुप्रदीपे उदाहतत्वात् । 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इति न्यायेन वनेरग्रहणात् । तस्माद् अस्मन्मतेऽपि 'क्षिष् हिंसायाम्' (८।३०) इति लाक्षणिकत्वादिति यथोक्तं तद्वदत्रापि। पञ्जिका–आकारस्यापि स्थितिः स्याद् इति। ननु 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति न्यायादेव न भविष्यति। नैवम्, इदमेव ज्ञापयति-क्वचिनिमित्ताभावे नैमित्तिकस्य स्थितिरिति। यथा पितुरभावे पुत्रस्य स्थितिरिति।
यद् वा 'लोपस्वरादेशयोः स्वरादेशो विधिर्बलवान्' (का० परि० ३५) इति ज्ञापनान्न भविष्यति। तथा ध्याप्योरित्यत्र टीकायामुक्तम्-तथा चेत्यादि। प्रतिषिद्धेड्ग्रहणं ज्ञापयति-एतेन प्रतिषिद्धेड्ग्रहणाद् टि सर्वथाऽनिटामेवात्र ग्रहणम् । तेन 'शान्त:, शान्तवान्' इति क्विप् , विकल्पेटो ग्रहणमिति न भवति। अथ यदि स्वमते प्रतिषिद्धेड्ग्रहणं सुखार्थम्, तदा 'शान्तः, शान्तवान्' इत्यत्रानिट्त्वान्न भवति, कथं ‘पञ्चमलोपोऽच्चात:' इति। तथा वनतिग्रहणमप्यनर्थकम्, अनिट्त्वादेव क्तौ सिद्धं वतिरिति। क्तौ पञ्चम्यन्तानां सर्वेषां पञ्चमलोपोऽच्चात: स्यात् "घोषवत्योश्च कृति" (४।६।८०) इत्यनेनानिट्त्वान्नैव दोषः। तनोत्यादिग्रहणं ज्ञापयति-उदनुबन्धत्वादनिटामत्र न ग्रहणम्, अन्यथा अनिट्त्वादेव सिद्धम्, किं तनोत्यादिग्रहणेन। तेन 'शान्तः, शान्तवान्' इत्यादौ न दोषः। यच्चोक्तं वनतिग्रहणमनर्थकमिति, तत्रापीयं सङ्गति:-"घोषवत्योश्च कृति" (४।६।८०) इत्यनिटि सति नान्तानां मध्ये वनतेरेवेति नियमे न दोषः। युक्तिरुक्कैवेति। यस्मिन् पक्षे इड् नास्ति तस्मिन् बुद्धिमारोप्यानिट इत्येषा युक्तिः।।९१४।
[समीक्षा]
'रतः, रतिः, वतिः, ततिः, यतिः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में धात्वन्तवर्ती वर्गीय पञ्चम वर्ण का लोप किया गया है। पाणिनि का सूत्र है-“अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति” (अ० ६।४।३७)। अत: उभयत्र समानता ही है।
[विशेष वचन] १. पक्षे येषामिडस्ति, तेऽप्यनिट उच्यन्ते (दु० वृ०)। २. पञ्चमोऽच्चातः इत्यन्वाचयशिष्टोऽयं चकार: (दु० टी०)। ३. प्रतिषिद्धेड्ग्रहणम् इह सुखार्थमेव (वि० प०;क० च०)।