________________
११०
कातन्त्रव्याकरणम्
इडागम का निषेध किया गया है- ऐसी धातुओं के पञ्चम वर्ण का लोप होता है एवं यथासम्भव आकार को अकारादेश भी होता है । । ९१४ ।
[दु० वृ०]
J
वनतेस्तनोत्यादेः प्रतिषिद्धेश्च पञ्चमो लोप्यो भवति धुट्यगुणे यथासम्भवम् आतश्चाद् भवति। वन् - वतिः । तनोत्यादि मनु बोधनेपर्यन्तः । तनु-ततः, ततवान् ततिः, तत्वा। प्रतिषिद्धेटश्च हतः, हतवान् । यतः, यतवान् । ऋणु, घृणु, तृणु' एषां न दीर्घः, संज्ञापूर्वकत्वात् ऋतम्, घृतम्, तृतमिति । पक्षे येषामिडस्ति तेऽप्यनिट उच्यन्ते।।९१४।
[दु० टी०]
वन०। ऋणु इत्यादि। ‘पञ्चमोऽच्चात:' इत्यन्वाचयशिष्टोऽयं चकारः । 'प्रकृतेः पूर्वं पूर्वं स्यादन्तरङ्गम् ' (का० परि० ७१) इति पञ्चमोपधाया दीर्घत्वे बहिरङ्गः पञ्चमलोपः इत्यद्भाव उच्यते । तिब्निर्देशश्चेक्रीयितलुगन्तनिवृत्त्यर्थः, अभिधानाद् भाषायामपि दृश्यते-वंवान्तः, तंतान्तः । अन्यत्र न भवति - यंयतः, मंमतः, रंरतः, जङ्घतः । अगुण इति किम् ? हन्ता, यन्ता।।९१४।
[वि० प० ]
वनति ० । 'प्रकृतेः पूर्वं पूर्वं स्यादन्तरङ्गम्' (का० परि० ७१ ) इति पञ्चमलोपादन्तरङ्गत्वात् प्राक् ‘‘पञ्चमोपधाया धुटि चागुणे" (४।१।५५) इति दीर्घत्वे सत्याकारस्य स्थितिरेव प्राप्नोतीत्यद्भाव उच्यते । चकारोऽन्वाचयशिष्ट इत्याह-यथासम्भवमातश्चाद् भवति इति। अनिड्ग्रहणादेव सिद्धे प्रतिषिद्धेग्रहणं ज्ञापयति - विकल्पेटोऽप्यनिट इत्याह
पक्ष इत्यादि । तेन सण्-प्रत्ययविधौ 'गुहू संवरणे' (१।५९५ ) इत्यूदनुबन्धत्वाद् विकल्पेटोऽप्यनिट्त्वे सति सिद्धम् अघुक्षदिति । मतान्तरमेतत् । अनेन पुनस्तत्र सणं प्रति युक्तिरुक्तैव। यथा गुहूरनिडेकपक्ष इति । प्रतिषिड्ग्रहणमिह सुखार्थमेव ।। ९१४ ।
[क० च० ]
वनति०। ननु 'द्वन्द्वात् परं श्रूयमाणः शब्दः प्रत्येकमभिसम्बध्यते' ( है ० पा० १३७) इति न्यायात् 'वनत्यादितनोत्यादि' इति प्रत्येकमादिशब्दसम्बन्धः कथं न स्यात्? सत्यम् । मीनात्यादिसूत्रे आदिद्वयोपादानात् प्रत्येकमभिसम्बन्धोऽर ऽस्य व्यभिचरतीत्युक्तमेव। यद् वा वनत्यादिग्रहणे प्रतिषिद्धेङ्ग्रहणं भविष्यति तदा प्रतिषिद्धेटामिति व्याप्तिवचनमनर्थकम् । हनमनामित्युक्तेऽप्यभिमतं सिध्यतीति यमादीनां प्रतिषिद्धेटां वनत्यादित्वादेव सिद्धे तस्मात् प्रतिषिद्धेड् ग्रहणात् तनोतीत्यनेनैवादिसम्बन्धः। वनतिप्रतिषिद्धेट्तनोत्यादीनामित्यपि न कृतम् - 'विचित्रा हि सूत्रस्य कृति:' इति । वतिरित्येव वृत्तौ पाठः । अणवणरणेत्यादिदण्डकपठितस्य वनेर्ग्रहणात् । 'वतः, वतवान्' इति पाठस्तु अशुद्ध एव दण्डकपठितस्य वनेः क्तेरन्यस्मिन् परतः इटोऽभावात् ।