________________
१०८
कातन्त्रव्याकरणम्
७-९. मूः, मुवौ, मुवः। मव् + क्विप् + सि, औ, जस् । 'मव बन्धने' (१।१६२) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् ।।
१०-१२. जूः, जुवौ, जुवः। ज्वर् + क्विप् + सि, औ, जस् । 'ज्वर रोगे' (१।५०१) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् ।
१३-१५. तूः, तूरौ, तूरः। त्वर् + क्विप् + सि, औ, जस् । 'जि त्वरा सम्भ्रमे' (१।५००) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् ।
१६-१७. श्रूतः, श्रूतवान् । श्रिव् + क्त, क्तवन्तु + सि। ‘श्रितु' धातु से क्तक्तवन्तु प्रत्यय, प्रकृत सूत्र से इकार - वकार को ऊट आदेश तथा विभक्तिकार्य ।
१८-२२. श्रुतिः ऊतिः, मृतिः, जूर्तिः, तूर्तिः। श्रिव् , अव, मव, ज्वर , त्वर + क्ति + सि। 'श्रिव् - अव् -मव् - ज्वर् - त्वर्' धातुओं से क्ति - प्रत्यय तथा अन्य कार्य पूर्ववत् ।
२३. श्रोमा। श्रिव् + मन् + सि। ‘श्रिव् ' धातु से 'सर्वधातुभ्यो मन् '” (कात० उ० ४।२८) सूत्र द्वारा औणादिक ‘मन्' प्रत्यय, प्रकृत सूत्र से इकार-वकार को ऊट, “नाम्यन्तयोर्धातुविकरणयोर्गुणः'' (३।५।१) से ऊकार को गुणादेश तथा विभक्तिकार्य।
२४. ओम् । अव् + मन् + सि। 'अव पालने' (१।२०२) धातु से ‘मन्' प्रत्यय, प्रकृत सूत्र द्वारा अकार-वकार को ऊट, गुण तथा रूढिवश ‘मन्' प्रत्यय में 'अन्' भाग का लोप।।९१२।
९१३. राल्लोप्यौ [४।१।५८] [सूत्रार्थ
क्विप् प्रत्यय, अगुण धुडादि प्रत्यय तथा पञ्चम वर्ण के परे रहते रेफपरवर्ती छकार तथा वकार का लोप होता है।।९१३।।
[दु० वृ०]
रेफात् परौ छकार-वकारौ लोप्यो भवत: क्वौ घट्यगणे पञ्चमे च। मुर्छा-मः, मुरौ, मुरः। धुर्वी-धूः, धुरौ, धुरः। धूर्तः, धूर्तिः। मूर्त:, मूर्तिः। निष्ठानत्वं नेष्यते । इहागुणपञ्चमानुवृत्तिर्न प्रयोजयति।।९१३।
[दु० टी०]
रात्।। मूर्त इति। 'अपृमूर्च्छि०' इत्यादिनिषेधान्नत्वं न भवतीति। धूर्त इत्यत्र प्राप्नोतीत्याह-निष्ठानत्वं नेष्यते इति रूढिशब्दाः कृदन्ताः, अतो न भवतीत्यर्थः।यदा तु विशिष्टार्थो न विवक्ष्यते तदा धूर्णः, धूर्णवानिति नत्वेन भवितव्यम् । इहेत्यादि। पूर्वोक्तया युक्त्याऽगुणाधिकारो न प्रयोजयतीत्यर्थः। “अन्येभ्योऽपि दृश्यन्ते'' (४।३।६७) इति मन्प्रत्ययो नाभिधीयते इत्यर्थः।।९१३।
[वि० प०] रात्।। अथ धूर्त इति। “रान्निष्ठातो नोऽपृमूर्छिमदिख्याध्याभ्यः'' (४।६।१०१)