________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः १०७ ९१२. श्रिव्यविमविज्वरित्वरामुपधया [४।१।५७] [सूत्रार्थ
क्विप् प्रत्यय, अगुण धुडादि प्रत्यय अथवा पञ्चम वर्ण के परे रहते श्रिवु-अव्मव-ज्वर तथा त्वर् धातुओं में विद्यमान वकार को उपधा के सहित ऊट आदेश होता है।।९१२।
[दु० वृ०]
एषामुपधया सह वकारस्योड् भवति क्वौ धुट्यगुणे पञ्चमे च। श्रिवु - श्रूः, श्रुवौ, श्रुवः। अव् - ऊः, उवौ, उवः। म - मू:, मुवौ, मुवः। ज्वर-जू:, जूरौ, जूरः। त्वरतूः, तूरौ, तूर:। श्रूत:, श्रूतवान्, श्रूतिः। ऊति:, मूति:, जूर्तिः, तूर्तिः। मन् - श्रोमा। अवतेरन्त्यस्वरादिलोपश्च-ओम् ।।९१२।
[दु० टी०]
श्रि०। छकार इह स्थानी नास्ति, शकारादेशो नानुवर्तते। गमेः क्विपीति-अग्रे गच्छतीति अग्रेगूः, अग्रेगुवौ। तदिहौणादिकत्वात् । केचित् ‘जाजूर्तिः, तातूर्तिः' इत्यादिचेक्रीयितलुगन्तमुदाहरन्ति। उपधायाश्चेति पठन्त्येके। 'असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि० ३३) इत्यस्यानित्यत्वाभ्युपगमाद् दीर्घात् परलोपादयोऽपि स्युरेव। यथा - ---- मिति यत्वं भविष्यति पूर्वसूत्रे तथा च प्रक्रियागौरवं नापि लाघवमिति।।९१२।
[वि०प०]
श्रिव्यवि०। श्रोमेति। "सर्वधातुभ्यो मन् " (कात० उ० ४।२८) इति मनि गुणे च रूपमिदम् । अवतेरन्त्यस्वरादिलोपश्चेति अवतरुपधया सह वकारस्योट गुणश्च। तत: परस्य मन्प्रत्ययस्य अन्भागो रूढिवशाल्लुप्यते।।९१२।
[समीक्षा]
'श्रूः, ऊः, श्रूतः, ऊति:' इत्यादि शब्दरूपों के सिद्ध्यर्थ उपधा-वकार को ऊठ् (ऊट) आदेश दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है - "ज्वरत्वरश्रिव्यविमवामुपधायाश्च' (अ० ६।४।२०)। अत: उभयत्र प्राय: समानता ही है।
[विशेष वचन] १. केचित् जाजूर्तिः, तातूर्तिः इत्यादि चेक्रीयितलुगन्तमुदाहरन्ति (दु० टी०)। २. तथा च प्रक्रियागौरवं नापि लाघवमिति (दु० टी०)। [रूपसिद्धि]
१-३. श्रूः, श्रुवौ, श्रुवः। श्रिव् + क्विप् + सि, औ, जस् । “श्रिव्'(?) धातु से क्विप् , सर्वापहारी लोप, इकार-वकार को ऊट तथा विभक्तिकार्य।
४-६. ऊः, उवौ, उवः। अव् + क्विप् + सि, औ, जस् । 'अव पालने' (१।२०२) धातु से क्विप् प्रत्यय तथा अन्य कार्य पूर्ववत् ।