________________
१०५
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [वि० प०]
छ्वो०। “सर्वधातुभ्यो मन्' (कात० उ० ४।२८) इति। "अन्येभ्योऽपि दृश्यते'' (४।३।६७) इत्यनेनाभिधानात् सर्वधातुभ्यो मन्नित्यर्थः। अथ सिवेर्लघूपधत्वाद् ऊट: पूर्वं गुण: कथन स्यात्? इति न देश्यम्। गुणो हि बाह्यप्रत्ययापेक्षत्वाद् बहिरङ्गः, यत्वं तु वार्णत्वादन्तरङ्गम् इत्यूडेवाग्रत: स्यात्, कथमन्यथाऽन्तरङ्गयत्वस्यार्थलाभ इत्याहअन्तरङ्गत्वाद् यत्वमेवेति। अथवा परत्वानित्यत्वाद् वकारस्य वर्णस्य स्थाने ऊड् भवन् वार्णत्वादन्तरङ्गत्वाच्च प्रागूटि कृते गुणो वा स्याद् इत्याह-अन्तरङ्गत्वाद् यत्वमेवेति। न च वक्तव्यमन्तरङ्ग यत्वं प्रति ऊटोऽसिद्धत्वात् कथमेतदित्याह-स्वरानन्तर्येऽसिद्धं बहिरङ्गमन्तरङ्गम् इत्यस्यानित्यत्वाभ्युपगमात्। ऊटस्तु नाम्यन्तलक्षणो गुणः।
अथ विच्छप्रभृतीनां छकारस्य स्वरपरत्वाद् द्विर्भावोऽघोषे प्रथमे च वर्णद्वयसन्निपातो वर्तते, ततश्छकारस्य शत्वे सति छकारस्थितिरेव स्यात्? तदयुक्तम्। कृतद्विर्भाव एव सूत्रे निर्देश इत्याह-छस्य द्विः पाठ इति। ननु तथापि वर्णान्तस्य विधिरित्यन्तस्यैव स्यान्न समुदायस्य? नैवम्, 'नानर्थक्ये वर्णान्तस्य विधिः' (व्या० प० पा० ६२) इत्यङ्गीकरिष्यति। यद्येवं कथं वाञ्छतेण्टि-वांशाविति अस्वरपरत्वाद् द्विर्भाव इतीह न स्यात्? सत्यम्, अभिधानात्। अथवा अकृतद्विर्भाव एव पठ्यते यत्र द्विर्भावोऽस्ति त। निमित्ताभावे नैमित्तिकस्याप्यभावो भविष्यति। तथा च सति वाण्ट-वांशाविति न्यायादेव सिध्यतीत्याह-नैमितिकस्याप्यभावो वेति।।९११।
[क० च०]
छ्वोः। अत्रापि चानुकृष्टत्वं प्रति पूर्वयुक्तिरनुसरणीयेति। पञ्जिकायां 'चाले भवति कूष्माण्डं वधूमातुर्गले व्यथा' अथैकस्यान्तरङ्गत्वात् कथमन्यस्य प्रवृत्तिरित्याहकथमन्यथेति। अथ तथापि स्वयमसिद्धः कथं परान् साधयतीति, न चात्मीयलाभे आत्मीया बलवत्ता दृश्यते येनैवमुच्यते इत्याह-अथवेति। एतेन ऊटो नित्यत्वमतिरिक्तबलं वकारोऽत्रान्तस्यैव गृह्यते उच्चारणवशादिति। नैमित्तिकस्यापीति। अथ यदा पूर्वं द्विर्वचनं तदैव युक्तं परस्मिन् कृते का गति:? सत्यम्, प्रायेण पूर्वत्रैव क्रियते इत्यभ्युपगमादुक्तम्।।९११।
[समीक्षा]
'प्रश्न:, गोविट, अक्षयू:' इत्यादि शब्दों के सिद्ध्यर्थ छकार को शकार तथा वकार को ऊट-ऊठ दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है- “च्छ्वोः शूडनुनासिके च' (अ०६।४।१९)। अत: उभयत्र समानता है।
[विशेष वचन] १. छान्दसत्वादनुनासिके धुड्ग्रहणेऽप्यदोषः इति (दु० टी०)। २. चेक्रीयितलुगन्तस्य भाषायामप्रयोगात् (दु० टी०)।