________________
१०४
कातन्त्रव्याकरणम्
६. शान्त्वा । शमु क्त्वा सि । 'शमु' धातु से "एककर्तृकयोः पूर्वकाले"
+
+
(४।६।३) सूत्र द्वारा 'क्त्वा' प्रत्यय तथा अन्य कार्य पूर्ववत् ॥ ९१० । ९११. च्छ्वोः शूटौ पञ्चमे च [४।१।५६ ]
[ सूत्रार्थ]
क्विप्, अगुण धुडादि प्रत्यय तथा पञ्चम वर्ण के परे रहते छकार को शकार तथा वकार को ऊट् आदेश होता है । । ९११ ।
[दु० वृ०]
छकारवकारयोः ‘श्-ऊट्’ इत्येतौ भवतो यथासङ्ख्यम्,
,
क्वौ धुट्यगुणे पञ्चमे च। विच्छ्-गोविट् । प्रच्छ् - पथिप्राट् । दिव्- अक्षद्यूः । पृष्टः, पृष्ट्वा । द्यूतः द्यूत्वा, दुद्यूषति । विश्न:, प्रश्नः । “सर्वधातुभ्यो मन्' (कात० उ० ४।२८) स्योमा । अन्तरङ्गत्वाद् यत्वमेव। छस्य द्विः पाठो नैमित्तिकस्याप्यभावो वा । । ९११ ।
[दु० टी० ]
छ्वोः । द्विः पाठ इति । छकारस्य द्विर्भावेऽघोषे प्रथमे सति निर्दिश्यमानस्य सन्निपातस्यादेशत्वम्। अथ वर्णान्तस्य विधिरिति बाधकत्वं नानर्थक्ये वर्णान्तस्य विधिरिति नैतदङ्गीकृतम्, प्रयोजनाभावात् । द्विर्भावग्रहणात् सर्वस्य तर्हि भविष्यति, नैवम्। द्विर्भावस्य प्रयोजनमस्तीति वाञ्छतेर्मा भूत् । तर्हि वाण्ट्, वांशाविति न सिध्यति ? सत्यम्, यथाभिधानं ज्ञेयम्। नैमित्तिकस्याप्यभावो वेति छकारमात्रमेव पठितव्यम्, यत्र द्विर्भावोऽस्ति तत्र निमित्ताभावे नैमित्तिकस्याप्यभावो भविष्यति । तथा वाञ्छतेर्वाण्ट्वांशाविति न्यायाद् उत्पुच्छयतेश्च क्विपि उत्पुडिति भवितव्यमेव।
स्योमेति। ‘“अन्येभ्योऽपि दृश्यन्ते" (४।३।६७) इति सर्वधातुभ्योऽभिधानान्मन् बहिरङ्गः उपधालक्षणगुणो वर्णाश्रयत्वाद् यत्वमन्तरङ्गमित्यूट् पञ्चमे स्यात् । कथं स्यूत्वा, क्वनिप् । स्योवा, वनिप् । न चायं धुट् तस्मात् परोऽनुनासिकग्रहणं विधत्ते क्वनिब्वनिपोर्वकारोऽनुनासिक इति, तदसत् । छान्दसत्वादनुनासिके धुङ्ग्रहणेऽप्यदोष इति दिवेश्चेक्रीयितलुगन्तस्य ' देदेमि, देदेनि' च भवितव्यं गुणित्वात् । येषां गुणो वर्तते तेषां देद्योति, देद्यवीति । अस्मिन् पक्षे "छशोश्च" (३।६।६०) इत्यत्र छकारग्रहणमनर्थकम्, अनेन शत्वे कृते षत्वं भविष्यति ? सत्यम् । भिन्नकर्तृकत्वान्नैतच्चोद्यमिति, तदसत् चक्रीतिलुगन्तस्य भाषायामप्रयोगादिति । अत्र चागुणाधिकारो वनतितनोत्यादिप्रतिषिद्धेटामित्यत्र प्रतिपत्तव्यः, अन्यथा निवृत्तिः सम्भाव्येत । अथ मण्डूकप्लुतिराश्रीयते, तथापि मन्दमतिबोधनार्थमगुणाधिकार इति ।
अन्यस्त्वाह-धुट्यगुण इति विशेषणाद् द्युभ्यां द्युभिरित्यत्र ऊडादेशो मा भूदिति प्राप्नोति। अक्षद्यूरित्यादावटो विषयो द्युत्वमित्यादौ " दिव उद् व्यञ्जने" ( २।२।२५) इत्यस्यैव विषयः, एवमपि धात्वधिकारात् प्रकरणाच्च लिङ्गस्य न भविष्यतीति ।। ९११ ।