________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्विपादः
१०३
[क० च०]
पञ्च०। प्रशान् इत्यत्र लुप्ताकारस्य स्थानिवद्भावात् "लिङ्गान्तनकारस्य" (२।३।५६ ) इति नलोपो भविष्यतीति न वाच्यम्। "न पदान्त ०" (का० परि० १० ) इत्यादिना लोपविधिं प्रति स्थानिवद्भावो नास्तीति सस्वरनकारकरणाद् एतदर्थमेव सस्वरो नकारः क्रियते । धुटीति किमिति । ननु कथमिदमुक्तम्, अत्र कृतेऽपि चेत्यनाद् भविष्यति। न च वाच्यम्, तत्राधिकारो नास्ति तदर्थ एवात्राधिकारः क्रियते । यतः ‘अवमत्य' इति, अतः स्थितिपक्षेऽत्र धुड्ग्रहणाद् यपि दीर्घस्याभावाद् "यपि च " (४।१।६०) इत्यत्रातश्चानुवृत्तिर्नास्ति इदानीं यपि परतोऽदीर्घस्तदा "यपि च " ( ४|१|६० ) इत्यत्रापि आतश्चादित्यनुवर्तिष्यते, ततश्च सिद्धम् अवमत्येति । सत्यम्, तदा 'प्रभण्य, प्रक्रम्य' प्रत्युदाहरणम्, इदं तु तदर्थं क्रियमाणम् एतदपि विषयीकरोतीति न्यायात्। ननु चकारेण क्विपोऽनुकर्षणाच्चानुकृष्टं नोत्तरत्रेति कथमुत्तरत्र प्रवर्तते ? सत्यम्, चकारानुवृत्तिरिति सागरः। यद् वा समुच्चयधर्मान्वितोऽयं चकारस्ततश्च तस्यानुकर्षणात् समुच्चीयमानस्यापि अनुकर्षणं दण्डापूपन्यायादिति कुलचन्द्ररीत्या, न चानुकृष्टत्वं क्विप इति । । ९१० ।
[समीक्षा]
'प्रशान्, प्रतान्, शान्तः शान्तिः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में दीर्घविधान किया गया है। पाणिनि का सूत्र है- “ अनुनासिकस्य क्विझलोः क्ङिति” (अ०६ | ४|१५ ) | अतः प्रायः उभयत्र समानता है।
[विशेष वचन ]
१. दीर्घ इति सञ्ज्ञापूर्वकत्वात् क्रमेः क्त्वाप्रत्यये वा (दु० वृ०)। २. धुटि चेति चकारः क्विबधिकारं न विहन्ति ( दु० टी०)।
३. केचिच्चेक्रीयितलुगन्तं भाषायामपि मत्वा ( दु० टी० ) | ४. केचित् क्रमेर्दीर्घमिच्छन्ति, तन्मतमुच्यते ( दु० टी० ) । [रूपसिद्धि]
१. प्रशान् ! प्र+शम्+ क्विप् + सि। 'प्र' उपसर्गपूर्वक 'शमु उपशमे' ( ३।४२) धातु से क्विप् प्रत्यय, सर्वापहारी लोप, मकार की उपधा को प्रकृत सूत्र से दीर्घ, "मो नो धातो: " (४।६।७३ ) से मकार को नकार तथा विभक्तिकार्य ।
२. प्रतान्। प्र+तनु+क्विप् + सि। 'प्र' उपसर्गपूर्वक 'तनु विस्तारे' (७।१) धातु से क्विप् प्रत्यय आदि कार्य पूर्ववत् ।
३-४. शान्तः, शान्तवान् । शमु + क्त, क्तवन्तु+सि। 'शमु उपशमे' (३।४२) धातु से 'क्त-क्तवन्तु' प्रत्यय, दीर्घ, म् को न् तथा विभक्तिकार्य।
५. शान्तिः । शमु + क्ति+सि । 'शमु' धातु से "स्त्रियां क्ति:" (४|५|७२) सूत्र द्वारा ‘क्ति' प्रत्यय तथा अन्य कार्य पूर्ववत्।