________________
कातन्त्रव्याकरणम्
विशेष वचन १.समो न विभाषेत्यन्ये (दु० वृ०)। २. सर्वे विधयो विकल्प्यन्ते (क० च०)। [रूपसिद्धि]
१. संवीय, संव्याय। सम् + व्यञ् + क्त्वा-यप् + सि। 'सम्' उपसर्गपूर्वक 'व्येञ् संवरणे' (१९६१२) धातु से क्त्वा प्रत्यय, यप् आदेश, आकार, प्रकृत सूत्र से वैकल्पिक सम्प्रसारण, दीर्घ तथा विभक्तिकार्य। सम्प्रसारण के अभावपक्ष में - 'संव्याय' शब्दरूप।
२. परिवीय, परिव्याय। परि+व्येञ्+क्त्वा-यप्+सि। ‘परि' उपसर्गपूर्वक 'व्ये' धातु से क्त्वा प्रत्यय आदि कार्य पूर्ववत्।।९०६।
९०७. तद् दीर्घमन्त्यम् [४।१।५२] [सूत्रार्थ धातु के अन्त्य में स्थित सम्प्रसारण को दीर्घादेश होता है।।९०७। [दु० वृ०]
तत् सम्प्रसारणं दीर्घमापद्यते अन्त्यं चेत्। हूत:, संवीत:, प्रस्तीतः। 'मित्रहू:, संवीय' इत्यन्तरङ्गत्वात् तकारागमं बाधते। अन्त्य ग्रहणमाख्यातार्थं च। तद्ग्रहणमभित्रबुद्ध्यर्थम्। तेन "सपरस्वरायाः सम्प्रसारणम्" (३।४।१) सिद्धम् ॥९०७।
[दु० टी०]
तद् दीर्घम् । हूतः, संवीत इति। ह्वेञ्व्येओर्यजादित्वात् सम्प्रसारणम्। 'प्रस्तीत:' इति "आतोऽन्तस्थासंयुक्तात्" (४।६।१०३) इति नत्वान्नित्यम्, “प्रस्त्यः सम्प्रसारणम्" (४।१।४५) इति। मित्रं हृयतीति क्विप् मित्रहः। संवीय इति। बहिरङ्गस्तकारागम: पानुबन्धप्रत्ययापेक्षत्वात्। एतत्प्रकरणस्थं सम्प्रसारणमन्त्यमेवेत्याह-अन्त्येत्यादि। अन्त्यग्रहणं मध्यनिवृत्त्यर्थम् , तच्चाख्यातिकमेव। यथा सुप्तः, सुप्यते, सुषुपतुः, उष्यते, उषित इति। तग्रहणमित्यादि। अभिना चासौ बुद्धिश्चेति अभिन्नबुद्धिः, सैवार्थ: प्रयोजनम्। अस्येति। तेनेहान्तस्थायाः सम्प्रसारणमुच्यमानं सपरस्वरायाः भवतीत्यर्थः। ननु वचनबलाद् भविष्यति, अन्यथा यत्वे को विशेष इति ? सत्यम् , विग्रहीति सम्भाव्यते।।९०७।
[वि० प०]
तद् दीर्घम् । अन्त्यग्रहणं मध्यनिवृत्त्यर्थम । न चैतत्प्रकरणस्थं सम्प्रसारणं मध्ये सम्भवतीत्याह-अन्तेत्यादि। चकारः सुखार्थमिहापीत्याविर्भावयति। तेन हूतः, संवीतः, मित्रहूरिति। हृव्येोर्यजादित्वात् सम्प्रसारणे दीर्घत्वमुपपद्यते। मित्रं हृयतीति क्विप् । मध्ये न भवति सुप्यते इति सुप्तः। तर्हि तद्ग्रहणं किमर्थम् , तदर्थस्य पूर्ववस्तुपरामर्शलक्षणस्यादिभावाद् इत्याह-तद्ग्रहणमिति। कृदाख्यातयोरेकबुद्ध्यर्थमित्यर्थः। तेनेति। अन्यथा