________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः सम्प्रसारणस्यान्तस्थानिमित्तत्वादन्तस्थानिमित्तमात्रस्यैव स्यान्न तु परस्वरसम्बन्धः। ननु वचनबलादेव स्वरेण सह भविष्यति। अन्यथा पुनर्यत्वे वत्वे च को विशेष इति, नैवम्। विसन्धिरपि सम्भाव्यते।।९०७।
[क० च०]
तद्। अन्ते भवम् अन्त्यम् , दिगादित्वाद् भवार्थे य:। आख्यातार्थमिति। अन्यथा एतत्प्रकरणप्रणीतस्यैव सम्प्रसारणस्य दीर्घ: स्यात् , न त्वाख्यातिकस्य। तदा 'संवीतः' इत्यादौ आख्यातिकस्य संप्रसारणस्य दी| न स्यात् ? एतस्मिंश्च सति व्यावृत्तिरप्युपपद्यते। यथा सुप्यते इति पञ्जिका। तर्हि अन्त्यग्रहणेनाख्यातिकसंप्रसारणस्यापि ग्रहणात् तच्छब्दस्य पूर्ववस्तुपरामर्शित्वाभावेऽयुक्तं तस्योपादानमिति न युक्तापेक्षा। अथ तद्ग्रहणाभावे दीर्घमन्त्यमिति सूत्रे एतत्प्रकरणप्रणीतस्य संप्रसारणस्य दी| भवतु, न त्वाख्यातिकस्य, अन्त्यत्वाभावात् ।
तबाह कश्चिद् - इह प्रकरणे दीर्घग्रहणबलाद् इह सम्प्रसारणस्य मध्यस्यापि स्यात्? तदयुक्तम्। सूत्रे साक्षाद् अन्त्यग्रहणपाठात् कथं मध्यस्य स्यात् , आख्यातान्त एवास्य विषय इत्याह-दीर्घमन्त्यमिति हेमः। 'ऊयते, जीयते' इत्यादावाख्यातिकप्रत्ययस्य दीर्घस्य प्रयोजनम् "नाम्यन्तानाम्०" (३।५।१७) इत्यादिना सिद्धत्वादित्याह-शर्ववर्मेति हेमः। “मित्रहः, संवीय' इति वृत्तिः। ननु ‘ग्रहीता' इत्यादौ इटो दीर्घो ग्रहेरिति इकारनिर्देशादन्तरङ्गेणागमो बाध्यते इति ज्ञापितमस्ति। अन्यथा अन्तरङ्गत्वाद् "हो ढः' (३।६।५६) प्राप्नोति। तस्मिंश्च सति ग्रहस्वरूपं नास्ति इति, तत् कथमत्रोक्तमन्तरङ्गत्वात्तकारागमं बाधते इति? सत्यम् । 'ज्ञापकज्ञापिता विधयो ह्यनित्याः' (का०परि०६०) इति कश्चित् । वस्तुतस्तु तत्राप्यन्तरङ्गत्वाद् हो ढ इति कृते पश्चादिटि सति निमित्ताभावाड् ढकारनिवृत्तौ कुतो धातुस्वरूपत्वं व्यभिचरतीति, येन ज्ञापकमिति वाच्यम् ॥९०७।
[समीक्षा
'संवीतः, मित्रहू:, हूतः' इत्यादि शब्दरूपों के सिद्ध्यर्थ सम्प्रसारण को दीर्घविधान दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है- “हलः" (अ०६।४।२)। अत: उभयत्र समानता ही है ।
[विशेष वचन] १. अन्त्यग्रहणमाख्यातार्थं च (दु० वृ०)। २. तद्ग्रहणमभित्रबुद्ध्यर्थम् (दु० वृ०)। ३.अन्त्यग्रहणं मध्यनिवृत्त्यर्थम्, तच्चाख्यातिकमेव (दु० टी०)। ४. चकार: सुखार्थम् (वि० प०)।