________________
९४
कातन्त्रव्याकरणम्
[क० च०]
प्रतेः। अथ पूर्वत्रोपसर्गनिर्देशाभावात् प्रतेरपि भविष्यति, किमनेन सूत्रेणेत्याहप्रतिपूर्व इत्यादि। द्रवघनस्पर्शार्थाभावात् पूर्वेण न सिध्यतीति भावः।।९०२।
[समीक्षा]
'प्रतिशीन:, प्रतिशीनवान्' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'प्रति' उपसर्गपूर्वक ‘श्यैङ्' धातु को सम्प्रसारण किया गया है। पाणिनि का सूत्र है"प्रतेश्च' (अ०६।१।२५)। अत: प्राय: उभयत्र समानता है ।
[विशेष वचन] १. प्रतिपूर्वोऽयं रोग एव वर्तते (दु० वृ०)। २. अद्रवधनस्पर्शार्थोऽयमारम्भः (दु०टी०, द्र०-क० च०)। [रूपसिद्धि]
१. प्रतिशीनः। प्रति+श्यैङ् + क्त + सि। 'प्रति' उपसर्मपूर्वक ‘श्यैङ् गतौ' (१।४५९) धातु से क्त-प्रत्यय आदि कार्य पूर्ववत्।
२. प्रतिशीनवान्। प्रति+श्यैङ्+क्तवन्तु सि। 'प्रति' उपसर्गपूर्वक ‘श्यैङ्' धातु से क्तवन्तु-प्रत्यय आदि कार्य पूर्ववत्।।९०२। .. ..
९०३. वाऽभ्यवाभ्याम् [४।१।४८] [सूत्रार्थ]
निष्ठासंज्ञक प्रत्ययों के परे रहते ‘अभि-अव' उपसर्गपूर्वक ‘श्यैङ्' धातु को वैकल्पिक सम्प्रसारण होता है।।९०३।
[दु० वृ०]
अभ्यवाभ्यां परस्य श्यायतेर्निष्ठायां भवति वा। अभिशीन:, अभिश्यानः। अवशीनं:, अवश्यानः। अभिशीनवान्, अभिश्यानवान्। अवशीनवान्, अवश्यानवान्। उभयत्र विभाषेयम्।।९०३।
[दु०. ती०]
वाऽभ्य० । उभयत्र विभाषेयमिति। द्रवघनस्पर्शयोः प्राप्ते विभाषा, अन्यत्राप्राप्ते विभाषेत्यर्थः। तृतीयामाहुरेके। अभ्यवाभ्यां युक्तस्य श्यायतेरिति। अभिसंशीन:, अभिसंशीनवान्। अवसंशीनः, अवसंशीनवान्। अन्ये वाऽभ्यवपूर्वस्येति पठित्वा अभ्यवावेव पूर्वी यस्येति प्रत्युदाहरन्ति। ‘समभिश्यान:, समवश्यान:' इति द्वयम् अप्रमाणमिति।।९०३।
[ विप
वा०। उभयत्रेति। द्रवघनस्पर्शयोरपीयं परत्वात् प्राप्ते विभाषा, अन्यत्राप्राप्ते विभाषेत्यर्थः। अत्रापि पञ्चम्या अभिसंश्यान इत्यादौ न भवति।।९०३।