________________
९२
कातन्त्रव्याकरणम्
३. वररुचिमते तृतीयातत्पुरुष एव प्रमाणम् (क० च०) ४. स्वमते व्यवधानकल्पने गौरवापत्तिरित्युपेक्षित: (क० च०)। [रूपसिद्धि]
१. प्रस्तीतः। प्र+स्त्या+क्त+सि। 'प्र' उपसर्गपूर्वक ‘ष्ट्यै स्त्यै शब्दसंघातयोः' (१।२५७) धातु से 'क्त' प्रत्यय, “आत्त्वं व्यञ्जनादौ” (२।३।१९) से ऐकार को आकार, “धात्वादेः षः सः' (३।८।२४) से षकार को सकार, प्रकृत सूत्र से 'या' को सम्प्रसारण इकार, “तद् दीर्घमन्त्यम्' (४।१।५२) से इकार को दीर्घ तथा विभक्तिकार्य।
२. प्रस्तीतवान्। प्र+स्त्या+क्तवन्तु+सि। 'प्र' उपसर्गपूर्वक 'स्त्या' धातु से क्तवन्तु प्रत्यय, सम्प्रसारणादि अन्य कार्य पूर्ववत्।।९००।
९०१. द्रवघनस्पर्शयोः श्यः [४।१।४६] [सूत्रार्थ]
निष्ठासंज्ञक प्रत्यय के परे रहते काठिन्य तथा स्पर्श अर्थों की विवक्षा में 'श्या' धातु को सम्प्रसारण होता है।।९०१।
[दु० वृ०]
द्रवघने स्पर्श चार्थे श्यायतेर्निष्ठायां सम्प्रसारणं भवति। शीनं घृतम्, शीनवद् घृतम्। शीतो वायु:। द्रवीभूय घनं कठिनम् इत्यर्थः। त्वगिन्द्रियग्राह्यो गुणविशेष: स्पर्श इति। द्रवघनस्पर्शयोरिति किम्? संश्यानो वृश्चिकः। शीतेन संकुचित इत्यर्थः।।९०१।
[दु० टी०]
द्रव०। द्रवघनश्च स्पर्शश्चेति द्वन्द्वे बहुस्वरस्यापि पूर्वनिपातो गमकत्वात्। एवं शीनवद् घृतम्। द्रवीभूय घनमिति। द्रवं च तद् घनं चेति कर्मधारयः। आदौ द्रवं पश्चाद् घनमित्यर्थः। यदा तु घनशब्दो गुणमात्राभिधायी तदा द्रवस्य घन इति षष्ठीसमास:, द्रवावस्थायां काठिन्यं गतमित्यर्थः।।९०१।
[वि० प०]
द्रव०। शीनं घृतमिति। "श्योऽस्पर्शे' (४।६।१०७) इति नत्वम्। द्रवीत्यादि। पूर्वं द्रवं पश्चाद् घनमित्यर्थः। द्रवं च यद् घनं चेति। छिन्नप्ररूढादिवत् पूर्वकाले कर्मधारयः।।९०१।
[क० च.]
द्रव०। द्रवीभूयेति। एतेन द्रवस्य पूर्वकालजन्यत्वं प्रतिपादितम्। यथा कर्मभूय कर्ता कर्मकतेंति "पूर्वकालैकसर्वजरत्पुराण." इत्यादिना कर्मधारयः।।९०१।