________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः सम्प्रस्त्यानवान्' इदमतीव काल्पनिकम्। प्रपूर्वस्य स्त्यायतेरिति प्रपूर्वग्रहणे सति विप्रतिपद्यते इत्याह-प्रस्त्य इति। "सपरस्वरायाः सम्प्रसारणमन्तस्थायाः' (३।४।१) इत्यधिकारस्यातिव्यवहितत्वात् सम्प्रसारणमिहोच्यते, अन्यथाऽनन्तरत्वात् शृतं निपातनमिति सम्भाव्येत।।९००। - [वि० प०]
प्रस्त्यः। "तद् दीर्घमन्त्यम्" (४।१।५२) इति दीर्घः। प्रेण स्त्या इत्यादि। यदि पुनः प्रात् स्त्या इति पञ्चमीलक्षणस्तत्पुरुषः स्यात् तदा ‘पञ्चम्या निर्दिष्टे परस्य' (का० परि० २२) इत्यनन्तरस्यैव स्यात्, न सम्शब्दव्यवहितस्येत्यर्थः। एतत्तु मतान्तरम्। इह तु पञ्चमीसमास एव न्याय्य इति। प्रसंस्त्यान इत्यस्य मतं वर्णयन्ति। इह परत्वाद् आतोऽन्तस्थासंयुक्तादिति निष्ठातकारस्य नकारः कथन स्यादिति न देश्यम्। अन्तरङ्गो हि सम्प्रसारणविधिरिति स एव स्यात्। तत्र कृते "वा प्रस्त्यो मः" (४।६।११२) इत्येतदेव भवतीत्याह- अन्तरङ्गत्वादिति।।९००। ..
[क० च०]
प्रस्त्यः। वररुचिमते तृतीयातत्पुरुष एव प्रमाणम्, प्रात् स्त्य इति अकरणात्। स्वमते व्यवधानकल्पने गौरवापत्तिरित्युपेक्षित:, बहुवादिसम्मतेरभावाच्च। अथ 'प्रस्तीत:' इत्यत्र परत्वात् सम्प्रसारणात् प्राक् कथम् आतोऽन्तस्थासंयुक्तादित्यादिना नत्वं न स्यादित्याह-अन्तरङ्गत्वादिति। नित्यत्वं तु अन्तरङ्गस्य बोध्यमिति तत्रोक्तम्। अस्यान्तरङ्गत्वं प्रकृत्याश्रितत्वाद् अन्तस्थासंयुक्तस्याकारस्य सम्प्रसारणे कृते अन्तस्थाभावान्न भवतीत्यर्थः। तत् सम्प्रसारणे कृते स्त्याधातोरभावांद "वा प्रस्त्यो मः" (४।६।११२) इत्यनेन मकारोऽपि न स्यादित्याह-मत्वन्त्विति। तुशब्दः पुनरर्थे। निमित्ताभावान्नकारस्तावन्न। भवतु, मत्वं तु पुनः स्यादेव 'एकदेशविकृतस्यानन्यवद्भावात्' (का० परि० १) इति शेषः। अत एवानन्यवद्भावादन्तस्थासंयुक्तो नकारः कथं न स्यादिति न वाच्यम्।न ह्यनन्यवद्भावेऽन्तस्थासंयुक्त आकारो निमित्तमानीयते इति।।९००।
[समीक्षा]
'प्रस्तीतः, प्रस्तीतवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'स्त्या' धातु को सम्प्रसारण का विधान किया गया है। पाणिनि का सूत्र है-“स्त्यः प्रपूर्वस्य' (अ०६।१।२३)। यहाँ 'ष्ट्यै-स्त्यै' ये दोनों ही धातुएँ ली जाती हैं, ऐकार को आकारादेश हो जाने पर दोनों का ही सम्प्रसारण होता है। अत: यहाँ उभयत्र प्रायः समानता ही है।
[विशेष वचन] १. अन्तरङ्गत्वात् कृते सम्प्रसारणे मत्वं तु स्यादेव पक्षे (दु० वृ०)। २. अन्तरङ्गो हि सम्प्रसारणविधिरिति स एव स्यात् (वि० प०)।