SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् अन्यहेतौ न स्यादिति। अन्यश्चासौ हेतश्चेति अन्यहेतुस्तस्मिन्, पक्तः सकाशाद अन्यस्मिन् पाचयितरि हेतावित्यर्थः। कदा चासावन्यहेतुर्भवति? यदा पत्तृकर्तृकादिन् विधीयते। यथा श्राति स्म श्रायति स्म वा क्षीरं देवदत्तः सोऽन्येन प्रयुज्यते स्मेति। यदापि पच्यमानकर्तृकादिनि विहिते पक्तृकर्तृकस्य हेतुत्वे संजाते पुनहेंताविन् विधीयते, तदाप्यन्य एव पाचयिता हेतुः। श्राति स्म श्रायति स्म वा क्षीरं स्वयमेव तद् देवदत्तेन प्रयुज्यते स्मेति हेताविन्, सोऽपि श्रपयन् प्रयुज्यते स्मेति पुनहेंताविनिति। एतदुक्तं भवति यदा पच्यमानकर्तृकाद् विक्लित्तिमात्रादिन् विधीयते तदा पक्तैव हेतुरिति तस्मिन्नेव भवति नान्यस्मिन् बाह्यहेतौ पाचयितरि, निपातनस्येष्टविषयत्वादिति भावः। श्रपितं पाचितमित्यर्थः। एतेन श्रपेः शृतमन्यत्र हेतोरिति मतं समर्थितम्। श्राणा श्रपितेति पक्तेत्यर्थः। एकत्रातोऽन्तस्थासंयुक्तादिति। निष्ठातकारस्य नकारः। अन्यत्र निष्ठायां "निष्ठेटीनः" (४।१।३६) इति कारितलोपः।।८९९। [क० च०] ___ शृतम्। अथ कस्य धातोरयं निपातः, सूत्रे प्रकृतिनिर्देशाभावात्। भूप्रभृतेरपि कथं न स्यात्, नैवम्, तेषां पचनार्थाभावात्। तर्हि पचप्रभृते: स्यात्। नैवम्, शृतमिति शकारादिस्तत्साहचर्यात् शकारादेरेवायं प्रयोगनिपात इति। स च 'श्रा पाके (२।२९) इत्यादादिकः, 'धै पाके' (११५२४) इति भौवादिकः, द्वयोरेव ग्रहणम्, न तु 'श्रीब् पाके' (८।३) इति क्रैयादिकस्य। कथमिति चेद् उच्यते- 'भै पाके, श्रा पाके' (११५२४;२।२९) इति निरनुबन्धस्य साहचर्यात्। यद् वा 'शृतम्' इति लघुयुक्तं तत्साहचर्याद् इनन्तस्यापि यस्य लघुमत्ता विद्यते, तस्यैव ग्रहणम्। सा च श्रीको नास्त्येव। अथ यदि 'त्रै पाके, श्रा पाके' (१।५२४;२।२९) इति द्वयोर्ग्रहणं तदा वृत्तौ कथं भौवादिको न दर्शित:? सत्यम्। श्रपयतेरिनन्तनिर्देशाद् भौवादिकोऽपि बोध्य इति न दोषः। अथ पाक इत्युक्ते इनन्तस्य कुत: प्रसङ्गः, तस्य पाचनार्थत्वात्? सत्यम्। पाचनायामपि पाकोऽस्त्येव, इनन्तस्योभयार्थत्वात्। ननु परो हि "शृतं पाके" (अ०६।१।२७) इति हेत्विनन्तनिरासार्थं पाके शृतमन्यहेताविति वक्तव्यं विधाय 'श्रा पाके' इति चुरादिपठितत्वादिनन्तस्य तस्य निपातोऽयमित्याचष्टे। भवन्मते चुरादिपाठाद् हेत्विनन्तस्यैव स्यादित्याह-अन्यहेताविति। अयमर्थः- पाक इति क्रियामानं तच्च ओदननिष्ठमेव, अत ओदनं श्रातीति प्रयोगो भवितुमर्हतीति। अत्रापि देवदत्तः ओदनं श्रातीति यथा भवति तस्यायं विचार:यदा पाकार्थानां देवदत्तादीनामधिश्रयणादिक्रियाणां देवदत्तादिनिष्ठत्वात् तत्र देवदत्तादयः कर्तारः 'ओदनादिकं कर्म' अधिश्रयणादीनां व्याप्यत्वात् परसमवेतानांमधिश्रयणादीनां धात्वर्थ: पाकफलम्। तथा च धात्वर्थः फलमिति मत्वा आचार्यस्तत्फलमोदनो भजते यतोऽतस्तस्य कर्मत्वम् । तथा च परसमवेतक्रियाजन्यफलभागित्वं कर्मत्वम्, इदानीं विक्लेदना धात्वर्थः। तत्र विक्लित्तिपक्षे इनि सति तत्रैव प्रतीतिरिति प्रकारभेदमात्रं न वस्तुभेदः।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy