SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [दु० टी०] शृतम्। श्रातिरदादिषु, श्रायतिर्वादिषु, मानुबन्धप्रतिपत्त्यर्थं घटादौ ‘श्रा पाके' श्रायतिरयं कर्मकर्तृविषयो दृश्यते। यथा पुरोडाश: श्रायतीति, पच्यते इत्यर्थः। स च पच्यमानकर्तृको न पत्तृकर्तृकः, कर्मकर्तृविषयेण पचिना यथा समानार्थस्तथा श्रातिरपीति। पतृविषयौ पच्यमानकर्तृको श्रातिश्रायती इति, तत्र यौ पच्यमानकर्तृको श्रातिश्रायती ताभ्यामिन्युत्पन्ने पक्तृकर्तृकत्वं प्रतीयते-अपयति वटुः पुरोडाशम्, श्राति वटुः पुरोडाशम्, पचतीति गम्यते। तावेतौ श्रातिश्रपयती समानार्थों भवतः। तद् यथा कर्मकर्तृविषयात् पचेः पच्यमानकर्तृकाद् विक्लित्तिमात्राद् इन्युत्पन्ने पचेः पाचयतेश्च समानार्थतेत्याहश्रातेः श्रपयतेश्चेति। तत्र श्राते: पच्यमानकर्तृकस्य पत्तृकर्तृकस्यापि ग्रहणम्,श्रपयतिस्तु पतृकर्तृक एव गृह्यते। शृतं क्षीरम्, स्वयमेव शृतं क्षीरं देवदत्तेनेत्यर्थः। अन्यहेतावित्यादि। अन्यश्चासौ हेतुश्चेति अन्यहेतुर्द्वितीयहेतुरित्यर्थः। श्रातिरिह पक्तृकर्तृको न पच्यमानकर्तृक इत्यर्थः। तस्माद् बाह्ययोः प्रेषणाध्येषणयोरिन्, तस्मात् श्रापयतेहेतुकर्तृकानिष्ठायां शृतम् इत्येतत् क्षीरहविषोरपि न भवतीत्यर्थः। केचिच्चुरादिष्वपि 'श्रा पाके' इति पठन्ति, तेषां श्रपे: शृतम् अन्यत्र हेतोरिति वचनम् । श्राणा यवागूरित्यभिधीयते।।८९९। [वि० प०] शृतम्। 'श्रा पाके' (२।२९) इत्यदादौ, 'त्रै पाके' (१।२६०) इति भ्वादौ। मानुबन्धसज्ञार्थं च श्राते: श्रायतेश्च कृतात्वस्य 'श्रा पाके' (११५२४) इति पुनर्घटादौ पाठः। सूत्रे विशेषानुपादानादिनन्तस्य केवलस्य च निपात इत्याह-श्रातः शृपयतेश्चेति। श्रातेरित्यनिनन्तस्य श्राधातोरुपलक्षणं श्रायतेरपीत्यर्थः, न त्वादादिकस्यैवेति। ननु कथं श्रपयतेरित्युक्तम्? इह हि श्राधातोरादादिकत्वाद् भौवादिकत्वाद् वा हेत्वर्थे एवेन् संभवति न तु हेत्विनन्तस्यायं निपात इष्यते, यदाह भाष्यकार:- 'श्रपेः शृतमन्यत्र हेतोः' इति। न चायमन्यैरिव चुरादौ भवद्भिः पठ्यते, येन स्वार्थिकेनन्तादेतदपपद्यते इति नैष दोषः। श्रातिश्रायती हि धातू देवदत्तादिपतृकर्तृको तथा कर्मकर्तृविषयौ पच्यमानतण्डुलादिकर्तृको च दृश्यते। यथा 'ओदनं श्राति श्रायति वा देवदत्तः'। पचतीत्यर्थः। श्रात्योदन: स्वयमेव श्रायति वा। पच्यते ओदनः स्वयमेवेत्यर्थः। तत्र यौ पच्यमानतण्डुलादिकर्तृको ताभ्यामिन्युत्पन्ने पत्तृकर्तृकत्वं प्रतीयते। यथा श्रपयति वटुः पुरोडाशं श्राति श्रायति वा, पुरोडाशं पचतीत्यर्थों गम्यते। तथा च सतीनन्तस्यानिनन्तस्य च समानार्थत्वम्। यथा कर्मकर्तृविषयत्वात् पच्यमानतण्डुलकर्तृकाद् विक्लित्तिमात्रार्थात् पचेरिन्प्रत्यये सतीनन्तस्य केवलस्य च समानार्थत्वमिति नोक्तदोषप्रसङ्गः। कारितान्तस्यापि हेत्वर्थाप्रतीतेरिति। तत्रानिनन्तः पच्यमानकर्तृकः पक्तृकर्तृकश्च गृह्यते, इनन्तस्तु पक्तकर्तृक इत्येव गृह्यते। यथा शृतं क्षीरं स्वयमेवेति पच्यमानकर्तृकस्य, शृतं क्षीरं देवदत्तेनेति। पक्तकर्तृकस्य श्रपयतेरप्येवमिति।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy