SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् व्रण ऊधश्चोच्यते। तत्र ऊधसि वाच्ये एवानेन नियमः कृतः। अन्यथा अन्धुव्रण ऊधस एव वा पर्याय इति यदुक्तं टीकायाम्, तदन्धुशब्देन किमुच्यते इति पृच्छायां वस्तुतस्तु ऊधोवाचकस्यान्धुशब्दस्यैव ग्रहणमिति पञ्जिका। तस्मिनित्याङः परस्य भवन अन्धधसोरभिधेययोरेव भवति, नान्यस्मिन्नभिधेये इति नियमात् केवलस्य पुनः प्रायोनास्ति व्यावृत्तिरिति भावः। तर्हि व्यावृत्तेरभावाद् यथा केवलस्य न स्यात् तथा आङ एवेति नियमस्यान्योपसर्गव्यावृत्तौ चरितार्थत्वात् प्राप्यानोऽन्धुरित्यत्राङो विद्यमानत्वात् कथं न स्यादित्याह-तत्र चेति। एतेनाडं विहाय केवलान्योपसर्गपूर्वस्य प्यायः प्रयोगो नास्ति, येन व्यावृत्त्यर्थम् आङ एवेति नियम इति वाच्यम्, किन्तु आङ एवेति नियमेन. केवलादाङ एव न त्वन्यसम्बन्धाद् इति गृह्यते। वक्तव्यस्यानादरकारणमाह-तदिदंमिति।।८९८। [समीक्षा] 'पीनं मुखम्, पीनौ बाहू, आपीनमूधः' इत्यादि शब्दरूपों के सिद्ध्यर्थ 'प्यायी' धात को 'पी' आदेश दोनों शाब्दिक आचार्यों ने किया है। पाणिनि का सूत्र है"प्याय: पी:” (अ० ६।१।२८)। अत: प्राय: उभयत्र समानता है। [विशेष वचन] १. भाष्ये तु स्वाङ्गमचिन्तितम् (दु० टी०)। २. नैयासिकानां च मतं शुद्धस्यैव प्यायः प्रयोग इति (दु० टी०)। ३. तदिदमभिधानादधिकृतस्य वाशब्दस्य बहुलार्थत्वात् सिद्धमिति (वि० प०)। ४. अयं तु योगार्थो दर्शितः। वस्तुतस्तु स्वाङ्गशब्दस्य रूढत्वादुत्तरकाले अन्य एवार्थ: प्रतीयते (क० च०)। ५. वस्तुतस्तु ऊधोवाचकस्यान्धुशब्दस्यैव ग्रहणम् (क० च०)। [रूपसिद्धि] १. पीनं मुखम्। प्यायी+क्त+सि। 'प्यायी वृद्धौ' (१।४१३) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र से 'प्यायी' को 'पी' आदेश, “ल्वाद्योदनुबन्धाच्च' (४।६।१०४) से निष्ठा तकार को नकारादेश तथा विभक्तिकार्य।।८९८। ८९९. शृतं पाके [४।१।४४] [सूत्रार्थ] पाक अर्थ विवक्षित होने पर 'श्रा' तथा 'श्रपि' धातु से 'शृतम्' शब्द निपातन द्वारा सिद्ध होता है।।८९९। [दु० वृ०] श्रातः श्रपयतेश्च शृतमिति निपात्यते पाकेऽर्थे। क्षीरहविषोरे व निपातनस्येष्टविषयत्वात्।शृतं क्षीरम्, शृतं हविः। अन्यहेतौ न स्यात्-क्षीरं श्रपितं देवदत्तेन यज्ञदत्तेनेति। क्षीरहविषोरेवेति किम्? श्राणा यवागूः, श्रपिता यवागूः।।८९९।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy