SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः इति । तेन चेत् तत् तथायुतम् इति । तेन प्राणिस्थेन स्वाङ्गेन यदि तथा युतं तथा सम्मितं तत्सदृशं स्यात् तदपि स्वाङ्गम्। यथा पीनं मुखं प्रतिमाया इति । कथन्तर्हि पीनो वटुरिति ? समुदायेन प्राणी कथ्यते इत्याह- पीनाङ्गयोगादिति । यथा दण्डयोगाद् दण्ड्यः पुरुष इति भावः । श्लेष्मणो द्रवरूपत्वाद् वायोश्चामूर्तिमत्त्वात् कथमित्याह- कथं पीनम् इत्यादि । यथा 'सिंहो माणवकः' इत्युपमानाद् व्यवहारस्तद्वदयमपीत्यर्थः । आपीनोऽन्धुरित्यादि। अन्धूधसोरेवेति किम् ? आप्यानावंसौ, आप्याना अङ्गुल्यः । एतस्मिन्नियमे 'पीनोऽन्धुः, पीनमूधः' इति भवत्येव । आङ एवान्धूधसोरित्यपि नियम इष्यते । तत्र च प्यायिरयमनुपसर्ग आङुपसर्गपूर्वश्च आङन्तोपसर्गसमुदायपूर्वस्य वाऽत्र प्रयोग इति । आङ एवेति नियमेन आङन्तोपसर्गसमुदायपूर्वस्य निवृत्तिः, तद् यथा आङ एवेति किम्? प्राप्यानोऽन्धुः, प्राप्यानमूध इति । तदिदमभिधानादधिकृतस्य वाशब्दस्य बहुलार्थत्वात् सिद्धमिति।।८९८। ८५ [क० च०] " प्यायः। स्वशब्द आत्मीयपर्यायः । स्वमात्मीयमित्यर्थः । अत आह- स्वमङ्गमित्यादि । यद् वा आत्मपर्यायः स्वशब्दः, स्वस्यात्मनोऽङ्गमिति । अयं तु योगार्थो दर्शितः । वस्तुतस्तु स्वाङ्गशब्दस्य रूढत्वादुत्तरकालेऽन्य एवार्थः प्रतीयते । रूढो योगापहारित्वात् । यथा मण्डं पिबतीति मण्डपः इत्यर्थे मण्डपशब्दो व्युत्पादितः पश्चाद् गृहे वर्तते रूढशब्दत्वात्। तदेवायं वक्ष्यति - स्वाङ्गमिति किम् ? अद्रवं मूर्त्तिमदिति । पारिभाषिकस्वाङ्गस्य विधिव्यावृत्ती क्रमेणोक्तवानिति । पीनो बाहुरित्यादि । अतत्स्थं तत्र दृष्टमित्यस्योदाहरणम्। पीनं मुखं प्रतिमाया इति, तेन चेत् तथायुतम् इत्यस्योदाहरणम् । अत एव कथमिति पाठोऽशुद्ध एव वृत्तौ, पञ्जिकायां कथमित्यनेनाशङ्कितत्वाच्च, अद्रवं द्रवद्रव्यं यन्न भवति तत् स्वाङ्गम् इत्युक्ते बुद्धेरपि तथोक्तत्वात् तस्यां प्रवर्तमानस्यापि स्यादित्याहमूर्तिमदिति। पूर्वं मूर्तिमदिति पदमद्रवमित्यस्य विशेषणम्। अथ प्राणिस्थमित्युक्ते पीनो बाहुर्देवदत्तस्य रथ्यायां पतित इतीदानीं प्राणिस्थत्वाभावान्न स्यादित्याह - अतत्स्थं तत्र दृष्टमिति । तर्हि पीनं मुखं प्रतिमाया इति प्राणिस्थत्वाभावात् कथं स्वाङ्गं स्याद् इत्याहतेनेति । अप्राणिनामप्यङ्गं यदि प्राणिस्थेनाङ्गेन सदृशं भवति । पीनः श्लेष्मा इत्यन्त्रायमाशयः पीनं मुखमित्यद्रवमूर्तिमत्त्वेन पदं निष्पाद्यं पश्चाद् यथा मुखं पीनं तथा श्लेष्मापि पीनोऽद्रवत्वात्। यथा मूर्तिमन्मुखं पीनं वायुरपि तथा पीनः । आप्यानावंसौ आप्यानान्यङ्गानि इत्यत्र स्वाङ्गत्वात् कथमादेशो न स्यात् । तस्मात् तन्निवृत्त्यर्थ माङो ऽन्धूधसोरेवेति नियमो वाच्य इत्याह- आपीन इति । अथोधसोऽविकारजत्वात् सिद्धे नियमो युक्तः, अन्धुपदार्थस्याविकारजत्वात् स्वाङ्गत्वाभावे कुतो नियम इति न वाच्यम् । ऊधस एव नियमः, अन्धोर्विधिरिति तस्मिन्नियमे पीनोऽन्धुरिति पञ्जिकाकृतस्य नियमपक्षस्यैव घटनात्? सत्यम्। अन्धुशब्देन
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy