________________
८४
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. स्फीतः। स्फायी+क्त+सि। ‘स्फायी वृद्धौ' (१।४१३) धातु से 'क्त' प्रत्यय, स्फायी को 'स्फी' आदेश तथा विभक्तिकार्य।
२. स्फीतवान्। स्फायी + क्तवन्तु + सि। 'स्फायी' धातु से 'क्तवन्तु' प्रत्यय, 'स्फी' आदेश तथा विभक्तिकार्य।।८९७।
८९८. प्यायः पीः स्वाङ्गे [४।१।४३] [सूत्रार्थ]
निष्ठासज्ञक प्रत्यय के परे रहते स्वाङ्ग अर्थ में वर्तमान प्यायी धातु को 'पी' आदेश होता है।।८९८।
[दु० वृ०]
स्वमङ्गं स्वाङ्गम्। स्वाङ्गे वर्तमानस्य प्यायतेर्निष्ठायां पीर्भवति। पीनं मुखम्, पीनवन्मुखम्। स्वाङ्ग इति किम्? प्यान: स्वेदः, प्याना बुद्धिः, प्यानं मुखं शालायाः, प्यानः शोथः। कथं पीनो बाहू रथ्यायां पतित:, पीनं मुखं प्रतिमाया:? स्यादेव
अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम्।
अतत्स्थं तत्र दृष्टं च तेन चेत् तत् तथायुतम्।। पीनाङ्गयोगात् पीनो वटुरिति। कथं पीन: श्लेष्मा, पीनो वायुरिति? उपमानात्। आपीनोऽन्धुः, आपीनमूधः। आङोऽन्धूधसोरेव।।८९८।
[दु० टी०]
प्यायः। भाष्ये तु स्वाङ्गमचिन्तितम्, प्यायिरनुपसर्ग आयूर्व आङन्तोपसर्गसमुदायपूर्वो वा प्रसज्यते इति। आङोऽन्धूधसोरेवार्थयोरित्यर्थस्तेनाप्यानावंसौ, आप्याना अङ्गुल्यः। अन्धुव्रण ऊधस एव पर्यायः। पीनोऽन्धुः, पीनमूध इति भवत्येव। उभयतो नियमश्चेष्यते। समापूर्वमाश्रित्य आङ्पूर्वस्यैवान्धूधसो न्योपसर्गपूर्वस्य प्राप्यानमूधः। नैयासिकानां च मतम्-शुद्धस्येव प्याय: प्रयोग इति। इहाङोऽन्धूधसोरिति नाद्रियते इतीयमेवाभिधानव्यवस्था न्याय्येति।।८९८।
[वि० प०]
प्यायः। "ल्वाद्योदनुबन्धाच्च" (४।६।१०४) इति निष्ठातकारस्य नकारः। किन्तत् स्वाङ्गमित्याह-अद्रवमित्यादि। दर्शितानि प्रत्युदाहरणानि। तत्र अद्रवमिति किम्? प्यान: स्वेदः। मूर्तिमदिति किम्? प्याना बुद्धिः। मूर्तिः काठिन्यं तद् बुद्धर्नास्तीत्यर्थः। प्राणिस्थमिति किम्? प्यानं मुखं शालायाः। अविकारजमिति किम्? प्यान: शोथ:। कथन्तर्हि पीनो बाहू रथ्यायां पतितः, पीनं मुखं प्रतिमाया:? न हीदं प्राणिस्थमित्याहस्यादेवेति। अस्यापि स्वाङ्गत्वादित्यभिप्रायः। तदेवाह-अतत्स्थमित्यादि। तत्र प्राणिनि पुरा दृष्टं न चेदानी तत्स्थं यत् तदपि स्वाङ्गम्। यथा पीनो बाहू रथ्यायां पतित: