________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
: ८९७. स्फायः स्फी [४।१।४२]
[सूत्रार्थ)
निष्ठासंज्ञक 'क्त-क्तवन्तु' प्रत्ययों के परे रहते ‘स्फायी वृद्धौ' (१।४१३) धातु को ‘स्फी' आदेश होता है।।८९७।
[दु० वृ०]
स्फाय: स्फीरादेशो निष्ठामात्रे। स्फीतः, स्फीतवान्। 'स्फायी' इतीदनुबन्धबलादादेशोऽयमनित्य इति। स्फात:, स्फातवान्। इहेट प्रतिषिध्यते।।८९७।
[दु० टी०]
स्फा०। स्फायीत्यादि। 'स्फायी ओ प्यायी वृद्धौ' (३।४१३)। यदि पुनरयमादेशो नित्यः स्यादीदनुबन्धो व्यर्थ: स्यात्। आदेशे कृते "इवर्णादश्विबिडीशीङः" (३।७।१४) इत्यादिना प्रतिषेधो भविष्यति। स्फात इति। "न डीश्वीदनुबन्ध०" (४।६।९०) इतीप्रतिषेधः “य्वोर्व्यञ्जनेऽये" (४।१।३५) इति यलोपः।।८९७।
[वि० प०]
स्फाय:। स्फायीत्यादि। ईदनुबन्धो हि "न डीश्वीदनुबन्ध०" (४।६।९०) इत्यादि निष्ठायामिटप्रतिषेधार्थः क्रियते, यदि चादेशोऽयं नित्य: स्यात् तदा “इवर्णादश्विबिडीशीङः" (३।७।१४) इत्यनेन प्रतिषेधः सिद्ध इत्यनर्थकमीदनुबन्धकरणं स्यात्। ननु कथमिदमनर्थकम्? तत्र हि इवर्णादिति विहितविशेषणा पञ्चम्युक्ता, इह न तु यकारान्ताद् विहितेति। नैवम्, इहापि निष्ठायामिति विषयसप्तम्याश्रयणादादेशे सति इवर्णाद् विधिरस्तीति मन्यते इति न दोषः। "वोर्व्यञ्जनेऽये" (४।१।३५) इति यलोप:।।८९७। '. [क० च०]
स्फायः। विषयसप्तम्येति। अत्र विषयसप्तम्या: किं प्रमाणं चेद् उच्यते-स्फीति दीर्घकरणम्, अन्यथा ह्रस्वे सति इडागमे कृते सिद्धं दीर्घत्वम्, किमत्र दीर्घपाठेनेति।।८९७।
[समीक्षा]
'स्फीत:, स्फीतवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में निष्ठासंज्ञक प्रत्ययों के परे रहते ‘स्फायी' धातु को ‘स्फी' आदेश किया गया है। पाणिनि का सूत्र है-“स्फाय: स्फी निष्ठायाम्' (अ० ६।१।२२)। अत: उभयत्र समानता है।
[विशेष वचन] १. स्फायीतीदनुबन्धबलादादेशोऽयमनित्यः (दु० वृ०)। २. यदि पुनरयमादेशो नित्यः स्याद् ईदनुबन्धो व्यर्थ: स्यात् (दु० टी० )।