________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः पञ्जिका- यदि आदादिकभौवादिकयोर्ग्रहणमुत्तं तत् कथं वृत्तो श्रातेरित्यादादिकस्यैवोक्तमित्याह- श्रातेरिनन्तस्येति। तथा कर्मकर्तृविषयाविति। अथ कर्तपक्षे कर्मवद्भावात् श्रायते ओदन: स्वयमेवेत्येव भवितुमर्हति तत् कथं श्रात्योदन: इत्युक्तम्? सत्यम्। वत्करणं स्वाश्रयार्थम्, तेन पक्षे कर्मवद्भावो न भवतीति कश्चित्। तन्न। "शेषात् कर्तरि" (३।२।४२) इत्यनेन शुद्धकर्तर्येव परस्मैपदं विधीयते। तथा च तत्रैवोक्तम्-पुनः कर्तरीति किम्? भिद्यते कुसूलः स्वयमेवेति। कथम् असिश्छिनत्ति करणकर्तरि? सत्यम्, करणकर्तुरनुक्तत्वात् शेषमस्तीति कर्तृग्रहणाद् अथ शेषेऽपि भवतीति तत्रैवोक्तम्। कश्चिद् आह-कर्मकर्तृविषययोरुदाहरणं न दत्तमस्ति, किन्तु श्रायते
ओदन: स्वयमेवेति बोध्यम्। अत्र पक्षे कर्मकर्तृविषयादिति व्याख्याने पञ्जीसङ्गत्यर्थं चार्थो भावनीयः। कर्मकर्तृविषयाद् व्याप्यमानकर्तृकाच्चेत्यर्थः। विक्लित्तिमात्रार्थादिति द्वयोरेव विशेषणम्।
वस्तुतस्तु कर्मकर्तविषयाविति लुप्तोपमा बोध्या। अयमर्थः- कर्मकर्तविषयाविव भवन्तौ पच्यमानकर्तृको श्रातिश्रायती दृश्यते। यथा कर्मकर्तरि विक्लित्तिमात्रार्थता तथा पच्यमानकर्तृकत्वेऽपि विक्लित्तिमाश्रित्य सादृश्यम्, एतेन पतृकर्तृकपच्यमानकर्तृकाविति यदुक्तं तद् द्वयमेव साध्यम्। कर्मकर्तृविषयाविति। उपमानतो नाद्यपक्षस्योदाहरणमिति, एतेन शृतं पाके कृतं देश्यमित्यादि बालप्रलपितं कर्मकर्तृपक्षस्य पच्यमानकर्तृपक्षस्य च विक्लित्तिमात्रार्थत्वेन समानार्थतां प्रतिपादयत्राह-तत्रेत्यादि। विक्लित्तिमात्रार्थेन स्याद् इनन्तस्य च धात्वन्तरेण समानार्थतां प्रतिपादयत्राह-कर्मकर्तृविषयावित्यादि। अत्र लुप्तोपमा। अयमर्थः- कर्मकर्तृविषयाविव विक्लित्तिमात्रार्थात् पच्यमानकर्तृकादिति न केवलस्येति विक्लेदनार्थस्येति शेष:। हेत्वर्थाप्रतीतेरिति। ननु कथमिदमुक्तं हेताविनो विधानात् कुतो हेत्वर्थाप्रतीतिरिति? सत्यम्। हेत्वर्थाप्रतीतेरित्यस्य कोऽर्थः। बाह्यहेत्वर्थाप्रतीतेरित्यर्थः। बहूनां सम्भवे कुत्र कस्य ग्रहणमिति विशिष्यते।
तत्रानिनन्त इति। अन्ये तु परमते स्वार्थिके सति यस्य कर्तत्वं तमपेक्ष्यान्यत्वमित्यर्थः। प्रत्ययोत्पत्तिकवाक्यमाह-श्रातिश्चेत्यादि। विवृणोति तदुक्तमिति। अथ बाह्यहेतौ न स्यादिति किमत्र प्रमाणमित्याह-निपातनस्येति। क्षीरहविषोरिति वृत्तिः। क्षीरं दुग्धं जलं च-'नीरक्षीराम्बुशम्बरम्' इति जलपर्यायेऽपि पठितत्वात्, एतेन 'पाके क्षीराज्यपयसां शृतम्' इत्यमरेण सहैकवाक्यता। तथा 'शृतं धान्यपटोलयोः' इति वैद्यके। धान्यपटोलयोः पाके शृतम्, जलं पेयमित्यर्थः। तर्हि 'चन्द्रसूर्यग्रहे चैव शृतमन्नं विवर्जयेत्' इति कथं भविष्यति? सत्यम्, ऋषिप्रमाणात्। हविः शृतम्। निष्ठाधिकारादयं निपातो निष्ठायां परत इति बोध्यम्। तत्र क्तवन्तौ निपात: पच्यमानकर्तृपक्ष एव घटते। यथा शृतं क्षीरं स्वयमेव।।८९९।