________________
८०
कातन्त्रव्याकरणम् रिति? सत्यम्, इदमेवादिद्वयं ज्ञापयति-त्रापि द्वन्द्वात् परस्य प्रत्येकमभिसम्बन्धस्य व्यभिचारोऽप्यस्ति, तेन "वनतितनोति०' (४।१।५९) इत्यादिसूत्रे आदिशब्दस्तनोतिना सम्बध्यते न वनतिनेति। तेन "दामागायति०" (३।४।२९) इत्यत्र व्यञ्जनादावपि इति कृतेऽत्र दादिग्रहणं न कृतं स्यादिति।।८९४।
[समीक्षा]
'प्रमाता, प्रमाय, निमाय, उपदाय, प्रस्थाय, अवहाय' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'मी' आदि धातुओं के अन्तिम वर्ण को आकारादेश किया गया है। पाणिनि का सूत्र है-“मीनातिमिनोतिदीङ ल्यपि च" (अ० ६।१५०)। अत: प्रायः उभयत्र समानता है।
[विशेष वचन] १. मीनातिग्रहणं स्वरूपपरिग्रहार्थम् (दु० टी०,द्र०-वि०प०)।
२. इदमेवादिद्वयं ज्ञापयति-कुत्रापि द्वन्द्वात् परस्य प्रत्येकमभिसम्बन्धस्य व्यभिचारोऽप्यस्ति (क० च०)।
[रूपसिद्धि]
१. प्रमाय। प्र + मी + क्त्वा - यप् + सि। 'प्र' उपसर्गपूर्वक 'मीञ् हिंसायाम्' (८७) धातु से “एककर्तृकयोः पूर्वकाले' (४।६।३) सूत्र द्वारा क्त्वा प्रत्यय, “समासे भाविन्यनञः क्त्वो यप्'' (४।६।५५) से क्त्वा को यप् आदेश, प्रकृत सूत्र से ईकार को आकार तथा विभक्तिकार्य।
२-११. निमाय। नि + मिञ् + क्त्ता-यप् + सि। उपदाय। उप + दी + क्त्वायप्+सि। प्रदाय। प्रदा+क्त्वा-यप्-सि। प्रधाय। प्र + धा + क्त्वा-यप् + सि। प्रमाय। प्र + मेङ्, माङ् क्त्वा-यप् - सि। प्रगाय। प्र + गै + क्त्वा-यप् + सि। प्रपाय। प्र + पा + क्त्वा यप् + सि। प्रस्थाय। प्र + स्था + क्त्वा-यप् + सि। अवसाय। अव + सो + क्त्वा-यप् + सि। अवहाय। अव + हा + क्त्वा-यप् + सि।।८९४।
८९५. क्षेर्दीर्घः [४।१।४०] [सूार्थ] यप् प्रत्यय के परे रहते ‘क्षि' धातु को दीर्घादेश होता है।।८९५। [दु० वृ०]
क्षेर्दी? भवति यपि परे। प्रक्षीय, उपक्षीय। कथं प्रक्षित्य गतः। 'क्षिष हिंसायाम्' (८।३०) इति लाक्षणिकत्वात्।।८९५।
[दु० टी०]
क्षेः। कथमित्यादि। श्रुतपाणेस्तु षानुबन्धस्यापि क्षेर्ग्रहणम् । एवम् उत्तरत्र सूत्रेऽपि व्याख्येयम् । क्षेरीरिति सिद्धे दीर्घग्रहणस्य फलं वक्ष्यति।।८९५।