________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
७९
[रूपसिद्धि]
१. प्रशमय्य। प्र + शम् + इन् + क्त्वा - यप् + सि। 'प्र' उपसर्गपूर्वक ‘शम् उपरामे' (३।४२) धातु से “एककर्तृकयोः पूर्वकाले'' (४।६।३) सूत्रद्वारा क्त्वा प्रत्यय, उपधावृद्धि, समास, क्त्वा को यप् आदेश, ह्रस्व, इन् को अय् तथा विभक्तिकार्य।
२. विगणय्य। वि+गण + इन् + क्त्वा-यप् + सि। 'वि' उपसर्गपूर्वक 'गण संख्याने' (९।१७६) धातु से क्त्वा प्रत्यय, “अस्य च लोपः' (३।६।४६) से अकारलोप, समास में क्त्वा को यप् आदेश, प्रकृत सूत्र से इकार को अय् तथा विभक्तिकार्य।।८९३।
८९४. मीनात्यादिदादीनामा [४।१।३९] [सूत्रार्थ
'मीञ्-मिञ्-दीङ्-दा-मा-गा-पा-स्था-सा-हा' 'धातुओं के अन्तिम वर्ण को यप् परे रहते आकारादेश होता है।।८९४।
[दु० वृ०]
मीनाति-मिनोति-दीङां दा-मा-गायति-पिबति-स्थास्यति-जहातीनां च यपि परे आकारो भवति। मीञ्-प्रमाय, डु मिञ्-निमाय, दीङ्-उपदाय। दामादीनामीत्वबाधनार्थमेव प्रदाय, प्रधाय। मेङ् माङ् वा-प्रमाय। प्रगाय, प्रपाय, प्रस्थाय। सोअवसाय। ओ हाक्-अवहाय।।८९४।
[दु० टी०]
मीना०। मीनात्यादयश्च दादयश्चेति द्वन्द्वे गमकत्वादल्पस्वरस्यापि परनिपातः। अथ प्रत्येकमादिग्रहणं किमर्थम् - मीनातिश्च दाश्च मीनातिदौ, तौ आदी येषामिति द्वन्द्वात् परस्य प्रत्येकमभिसम्बन्धो भविष्यति? सत्यम, मीनातिश्च दादयश्चेति सम्भाव्येति। मिजादिदादीनामिति सिद्धे मीनातिग्रहणं स्वरूपपरिग्रहार्थम् । मीनातिशब्द आदिर्येषामित्यर्थः। तेन धातुगणो न गृह्यते, तत्साहचर्याद् दादयो धातुगणा न गृह्यन्ते किन्तर्हि सौत्रा इत्याह-मीनातिमिनोतीत्यादि।।८९४।
[वि० प०]
मीनात्यादि। मीङादिदांदीनामिति सिद्धे यन्मीनातिग्रहणं तत् स्वरूपपरिग्रहार्थम्। मीनातिशब्द आदिर्येषामिति विग्रहः। तेन धातुगणो न गृह्यते किन्तर्हि सौत्रः। अत्र हि मीनातिशब्दस्यादौ विद्यमानत्वात् तत्सहचरिता दादयोऽपि सूत्रपठिता एव गृह्यन्ते इत्याह-मीनातीत्यादि।।८९४।
[क० च०]
मीनाति०। अथ प्रत्येकम् आदिग्रहणं किमर्थम् 'द्वन्द्वात् परं श्रूयमाणशब्दः प्रत्येकमभिसम्बध्यते' (है० परि० १३७) इति न्यायाद् उभयत्राभिसम्बन्धे साध्यसिद्धि