________________
७८
कातन्त्रव्याकरणम् भूतपूर्वगत्यनन्तर इति? भूतपूर्वगत्याश्रयणे विगणय्य इत्यादिष्वेव स्यात्, धातोरदन्तत्वाद् इह नान्तरो लघु: पूर्वमासीदिति न प्रशमय्येत्यादौ, सत्यम् । नेह भूतपूर्वगतिराश्रीयते, पूर्वग्रहणात् । अन्यथा लघोरित्युक्ते 'पञ्चम्या निर्दिष्टे परस्य' (का० परि०२२) इति भविष्यति। तत्र च लघोः साक्षात् परत्वं न सम्भवतीति भूतपूर्वगतिराश्रीयते, किं पूर्वग्रहणेनेति भावः। आप इत्यादि। वक्तव्यं व्याख्येयम् । "वा कृति रात्रेः" (४।१।२८) इत्यतो वाग्रहणादियमिष्टसिद्धिरिति भावः। तर्हि "स्मिजिक्रीडामिनि०" (३।४।२४) इत्यात्त्वे "अर्तिह्री०" (३।६।२२) इत्यादिना पान्तत्वे सति इङोऽपि प्राप्नोति। तस्माद् आप्नोते: परस्य वेति वक्तुमुचितम्? तदयुक्तम् इत्याह-इङादेशस्येत्यादि।।८९३।
[क० च०]
लघु०। सस्वरोऽप्यय एव पाठः, न तु यकारमात्रम्, सूत्रस्य वैयर्थ्यापत्तेः। अथ यकारद्वये सति भेदाद् वचनं चरितार्थम् । नैवम्, संयुक्तसजातीयानां भेदो नास्तीति पञ्जिका। पूर्वग्रहणादिति। अथ पूर्वग्रहणं तथापि न क्रियतां लघुग्रहणादेव भूतपूर्वगतिनिरासो भविष्यति। अन्यथा यदि भूतपूर्वगतिः स्यात् तदा अत इति कुर्यात्। नच विगणय्य इत्यादौ अकारमन्तरेणान्यो लघुरस्ति भूतपूर्व इति सत्यम् । अत इति कृते कुतः सम्मोहः किं भूतपूर्वादतः। ततश्च वचनादेकेन वर्णेन व्यवधानता सम्भवति। ततश्च पूर्वादिति सिध्येत् तथा नात्र। यतोऽत्र पक्षे वचनादेकवर्णव्यवधानेऽकारमात्रात् प्राप्तिर्लघुग्रहणे तु 'अ-इ-उ-ऋ-ल' वर्णादिति महति भेदे कथमुक्तार्थता लघुग्रहणस्य, येन सन्देहोच्छेदो भविष्यति।।८९३।
[समीक्षा
'प्रशमय्य, विगणय्य, प्रबेभिदय्य' इत्यादि शब्दरूपों के सिद्ध्यर्थ णिच् - इन् को अयादेश का विधान दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है - "ल्यपि लघुपूर्वात्' (अ० ६।४।५६)। पाणिनीय णिच् प्रत्यय के लिए कातन्त्रकार ने इन् प्रत्यय किया है, तदनुसार यहाँ इसे अयादेश का स्थानी समझना चाहिए। इस प्रकार उभयत्र समानता ही है ।
[विशेष वचन] १. इङादेशस्य लाक्षणिकत्वाद् अध्याप्य गतः (दु० वृ०)। २. पूर्वग्रहणं भूतपूर्वगतिनिरासार्थम् (दु० टी०)। । ३. प्रत्यक्षानुमेययोः प्रत्यक्षं बलीय: स्यात् (दु० टी०)। . ४. एके इच्छन्ति अपरे नेच्छन्ति, तन्मतमिह प्रमाणम् (दु० टी०)। ५. नग्रहणं प्रतिपत्तिगौरवनिरासार्थम् (दु० टी०)। ६. नेह भूतपूर्वगतिराश्रीयते पूर्वग्रहणात् (वि० प०)। ७. वाग्रहणादियमिष्टसिद्धिरिति भावः (वि० प०)।