________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
७७
५. मण्डयन्तः। मण्ड् + इन् + झ + अन्त + सि। 'मडि भूषायाम्' (१।१०३) धातु से इन्, झ-अन्त आदेश, इन् - लोपाभाव, गुण, अयादेश तथा विभक्तिकार्य।
६. स्तनयित्नुः। स्तन् + इन् + इत्नु + सि। 'स्तन देवशब्दे' (९।१८०) धात् से इन्, इत्नुप्रत्यय, इन्लोप का निषेध, गुण, अयादेश तथा विभक्तिकार्य।।८९२।
८९३. लघुपूर्वोऽय् यपि [४।१।३८] [सूत्रार्थ
जिसके पूर्व में लघुसंज्ञक वर्ण हो, ऐसे इन् के स्थान में 'अय्' आदेश होता है 'यप' आदेश के परे रहते।।८९३।
[दु० वृ०]
लघुपूर्व इन अय् भवति यपि परे, वचनादेकवर्णव्यवधानेऽपि। प्रशमय्य, विगणय्य। लघुपूर्व इति किम् ? सम्प्रधार्य गतः। आप: परस्य वा वक्तव्यम् । प्रापय्य गतः, प्राप्य गतः। इङादेशस्य लाक्षणिकत्वाद् अध्याप्य गतः।।८९३।
[दु० टी०]
लघु०। लघु: पूर्वो यस्यादिति विग्रहः। पूर्वग्रहणं भूतपूर्वगतिनिरासार्थम् । अन्यथा लघोरित्युच्यमाने किमेकेन वर्णेन व्यवधानमाथीयते, ततो लघो: पर इन् इति भूतपूर्वगतिरिति संदिह्येत। तत्र भूतपूर्वगतौ अस्य च लोपे सत्येव स्यात्। विगणय्य, प्रबेभिद्य गत इत्यादौ यद्येवम् अत इत्युच्येत। न ह्यकारमन्तरेण भूतपूर्वगति: सम्भवति। तथैवं तर्हि सन्देहः लघुपूर्वाद् अय् यपीति पठन्ति एके। धातुर्यों लघुः स एव पूर्वो यस्माद् वर्णादिति वर्णश्चार्थाद् व्यञ्जनम् । लघुपूर्वाद् व्यञ्जनात् परस्येनोऽयादेश इत्यर्थः। आप इत्यादि। वक्तव्यं व्याख्येयम् । "वा कृति रात्रेः" (४।१।२८) इत्यतो वाग्रहणमिह मण्डूकप्लुत्या वर्तते, तच्च बहुलार्थमित्यर्थः।
इङादेशस्येत्यादि। "स्मिजिक्रीडामिनि" (३।४।२४) इत्यात्त्वे "अर्तिही." (३।६।२२) इत्यादिना वकारागमः। अर्थत: 'आगमा यद्गुणीभूतास्ते तद्ग्रहणेन गृह्यन्ते' (का०परि०१४) इति रूपसादृश्याद् विभाषा प्राप्नोति। तस्माद् "आप्नोतेः" (३।३।४०) इति वक्तव्यं नेत्याह-इडेत्यादि। 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव' (का० परि० ७५) प्रत्यक्षविशिष्टस्य ग्रहणं नानुमेयरूपस्य। प्रत्यक्षानुमेययोः प्रत्यक्षं बलीय: स्यात् । सकृत्प्रतिपत्तौ लब्धविषयं शास्त्रं त्रिषु कालेषु दृष्टिवशात्र प्रवर्तते। अथवा एके इच्छन्ति, अपरे नेच्छन्ति, तन्मतमिह प्रमाणमिति। ननु पूर्वसूत्रेऽयग्रहणमेवास्तां तच्च कारितलोपापवादो भविष्यति ? सत्यम्, नत्र्ग्रहणं प्रतिपत्तिगौरवनिरासार्थमिति।।८९३।
[वि०प०]
लघु०। वचनादिति। न ह्यनन्तरो लघुः पूर्वः सम्भवतीति, अर्थाद् एकेन वर्णेन व्यवधानादित्यर्थः। ननु वचनप्रामाण्यात् किमेकेन वर्णेन व्यवहितो लघुराश्रीयते उत