________________
कातन्त्रव्याकरणम्
प्राक् प्रवर्तते। एकदेशस्येति। अथ एकदेशस्येति। एकदेशविकृतस्यानन्यवद्भावात्। स एवायं पचिरनेकस्वर इत्यर्थे सति इट् स्यादिति कथं नोच्यते? सत्यम्। असिद्धवद्भावेऽनन्यद्भाव: प्रयुज्यते। अत्र तु मतान्तरेणापि पाचिरूपानिट सिद्धः सूत्रे पाँचिरूपस्य पठितत्वात्। किञ्च अनन्यवद्भावेनानेकस्वरत्वं नानीयते, किन्तर्हि इनन्तधातुत्वम्। यद् वा नास्वशब्दोक्तत्वादिति निषेधात् पचिवचीत्यादि स्वशब्दोक्तं भवति।।
सिद्धान्तवादिन इति। ननु पूर्वपक्षवादिन इत्येव वक्तुमुचितम्, सिद्धान्तस्य वक्ष्यमाणत्वात्? सत्यम्। वेटामित्यादिना ग्रन्थेन संज्ञपित इत्यत्र दूषणं नास्तीत्येतादृश इत्यर्थः। तेन हीत्यादि। ननु कथम् इडागमस्य नित्यत्वम्, कृताकृतप्रसङ्गित्वाभावात्। नहि कारितलोपे इट: सम्भवोऽस्ति, "पचिवचि०" (३।७।१८) इत्यादिना विहितविशेषणाभावेनेटप्रतिषेधादित्युक्तमेव, नैवम्। नित्य इति आवश्यक इत्यर्थः, अबाधित इति यावत्। कुतश्चेद् उच्यते - 'आगमादेशयोरागमविधिर्बलवान्' (का० परि० ४०) इति न्यायात्। अथ लोपस्य कृताकृतप्रसङ्गित्वेन नित्यत्वबलादावश्यकत्वमिति वाच्यमित्याह-नन्विति। ननु लोपोऽबाधित इत्यर्थः। कुतोऽबाधित इति चेत् कृताकृतप्रसङ्गित्वाभावात् तदेव नास्तीति कुत इत्याह- इटि सतीति। अथ "कारितस्यानामिविकरणे" (३।६।४४) इत्यत्र इड्ग्रहणं न क्रियताम्, निष्ठायामिटीन इति पृथक् पदं कुर्यात् तथा च तेन सिद्धे इदं सूत्रं नियमार्थं भविष्यति। निष्ठायामेव इटि लोपो नान्यस्मिन्निटीति? सत्यम्। निष्ठायामिट्येवेति विपरीतनियमः कथन स्यात्।हेमेनापि व्याख्यातं वैयर्थ्यम। अथ भिन्नपदनिर्देशबलान विपरीतनियमावसरः। अन्यथा "निष्ठेटीनः" (४।१।३६) इति कुर्यात्। यद् वा निष्ठायामिट्येवेति नियमे व्यावृत्तिरपि नास्ति। तथाहि-निष्ठायां भवन्निट्येव, न तु केवलायामिति। न हि केवलनिष्ठायाः सम्भवोऽस्ति, तत् किमुक्तं हेमेनेति। अथ निष्ठायामिटीन एव नान्यस्य। दरिद्रित इत्यत्राकारलोपो न स्याद् इति विपरीतनियमो हेमस्याभिमत इत्यर्थः। नैवं निष्ठायामेव इटीति नियमे उपस्थितमादाय विधिव्यावृत्तिसम्भवेऽनुपस्थितकल्पने गौरवापत्तेः। तस्माद् भित्रकर्तकत्वादि ग्रहणमिति टीकाकारवचनमेन साधी यः? सत्यम्। प्रथमकक्षायामुक्तम्।।८९१।
[समीक्षा
'कारित:, हारितवान्, लक्षितवान्' इत्यादि शब्दरूपों के सिद्ध्यर्थ सेट् निष्ठासंज्ञक प्रत्ययों के परे रहते णिच-इन् प्रत्ययों का लोप दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है- “निष्ठायां सेटि" (अ०६।४।५२)। यह ज्ञातव्य है कि पाणिनीय णिच् प्रत्यय के लिए कातन्त्रकार ने इन् प्रत्यय किया है, तदनुसार सूत्रों में उनका पाठ मिलता है। अत: उभयत्र समानता है।
[विशेष वचन] १. भिन्नकर्तृकर्तृकत्वात् तत्रेड्ग्रहणं कृतम् (दु० टी०)।